SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ-.. सूचिसूत्रं पिप्पलकम् सूचेः सूत्रं सूचिसूत्रम् ॥ १ ॥ पिप्पलमेव पिप्पलकम् ।। २ ।। त'ः कर्तनसाधनम् ।। ५७५ ।। ‘कृतैप वेष्टने' कृत्यते वेष्टयते सूत्रमस्मिन् तर्कुः पुंलिङ्गः, “कृतेस्त च" ॥ ( उणा-७२३ ) ॥ इत्युः तर्कादेशश्च ॥ १ ॥ कृत्यत कर्तनं तस्य साधनं । ॥२॥ ५७५ ॥ पिञ्जनं विहननं च तुलस्फोटनकामुकम् । पिज्यते हन्यतेऽनेन पिञ्जनम् ।। १ ॥ विहन्यतेऽनेन विहननम् ॥ २ ॥ तुलस्कोटनाय कार्मुकम् ।। ३ ।।।। सेवनं सीवनं स्यूतिः सेव्यते सेवनम् ।। १ ॥ “ष्ठिवसिवोऽनटि वा" ||४।२।११२॥ इति दीर्घत्वे सीवनम् ।। २ ॥ स्त्रियां क्तौ "अनुनासिके च." ।। ४।१।१०८ ॥ इत्यूटि च स्यूतिः ॥ ३ ॥ ___ तुल्यौ स्यूतप्रसेवकौ ॥ ५७६ ॥ , सीव्यते स्म स्यूतः ॥ १॥ प्रसीव्यते प्रसेवः, के प्रसेवकः वस्त्राद्यावपनम् ॥ २ ॥ ५७६ ।। तन्त्रवायः कुविन्दः स्यात् तन्त्रं तन्त्वातनं वयति तन्त्रवायः, तन्तुवायोऽपि ॥१॥ कुं विन्दति कुविन्दः "निगवादेर्नानि." ॥ ५।१।६१ ॥ इति शः ॥ २ ॥ त्रसरः सूत्रवेष्टनम् । त्रस्यति वलति त्रसरः, “जठर-" ॥ (उणा-४०३) ॥ इति बहुवचनाद् रः ॥ १ ॥ सूत्रं वेष्ट्यते वानार्थमत्र सूत्रवेष्टनम् ।। २ ॥ वाणिव्यूतिः वानं वाणिः स्त्रीलिङ्गः, “कमिवमि-" ॥ ( उणा-६१८) ॥ इति णिः ॥१॥ 'ऊयैङ् तन्तुसन्ताने' विशेषेण ऊयनं व्यूतिः "स्त्रियां क्तिः” ॥ ५।३।९१ ॥ वोः "प्वय्." ॥ ४।४।१२१ ॥ इति यलोपः ॥ १ ॥ वानदण्डो वेमा वानाय दण्डो वानदण्डः ॥ १॥ वयन्यनेन वेमा 'क्लीबलिङ्गः, “सात्मन्नात्मन्-'" ॥ ( उणा-९१६ ) ।। इति मनि निपात्यते ॥ २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy