SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ . ३ मर्त्यकाण्डः। ३६३ श्यति तनूकरोति शाणः पुंस्त्रीलिङ्गः, "इणुर्विश-" ॥ (उणा-१८२ ) ॥ इति णः ॥ १॥ निकष्यतेऽनेन निकषः, “गोचरसंचर-" ॥५।३।१३१॥ इति घः ॥२॥ एवं कषः ॥ ३ ॥ संदंशः स्यात् कङ्कमुखः संदश्यतेऽनेन तप्तहेमादि संदंशः ॥१॥ कङ्कस्येव मुखमस्य कङ्कमुखः ॥२॥ भ्रमः कुन्दं च यन्त्रकम् ॥ ५७३ ॥ भ्रमति भ्रम्यते वा भ्रमः ॥ १॥ कवते शब्दायते कुन्दं पुंक्लीबलिङ्गः, "वृतृकुसुभ्यो नोऽन्तश्च" ॥ ( उणा-२४० ) ॥ इति दः ॥ २ ॥ यन्त्र्यतेऽनेन यन्त्रम् , के यन्त्रकम् ॥ ३ ॥ ५७३ ॥ वैकटिको मणिकारः विकटा मणयः पण्यमस्य वैकटिकः ॥ १॥ उत्तेजनाद् मणिं करोति मणिकारः ॥२॥ शौल्विकस्ताम्रकुटकः । शुल्वघटनं शिल्पमस्य शौल्विकः ॥ १॥ तानं कुट्टयति ताम्रकुटकः ॥ २॥ शाङ्खिकः स्यात् काम्बविकः शङ्खघटनं शिल्पमस्य शाजिकः ॥ १॥ कम्बुघटनं शिल्पमस्य काम्बविकः, "शिल्पम्" ॥ ६।४।५३ ॥ इतीकण "ऋवर्णोवर्णात्-" ॥७॥३॥३७॥ इति लक्ष्यानुरोधाद् इकण्इकारस्य लोपो न भवति ॥ २ ॥ . तुन्नवायस्तु सौचिकः ॥ ५७४ ॥ ___ तुम्नं विद्धं वयति तुम्नवायः, "आतो डो." ॥ ५।१।७६ ॥ इत्यत्र वावर्जनात् "कर्मणोऽण्" ।। ५।१।७२ ॥ इत्यणेव ॥१॥ सूचीवानं शिल्पमस्य सौचिकः ॥२॥ ५७४ ॥ ... कृपाणी कर्तरी कल्पन्यपि कल्पते कृपाणी, “कृपिविषि." ॥ ( उणा-१९१ ) ॥ इत्याणक् ॥ १॥ कृत्यतेऽनया कर्तरिः, “नदिवल्यर्ति" ॥ (उणा-६९८) ॥ इत्सरिः, डयां कर्तरी ॥ २ ॥ कल्पतेऽनया कल्पनी ॥ ३ ॥ सूची तु सेवनी। - सूचयति सूचिः, “ खरेभ्य इः" ॥ (उणा-६०६) ॥ डयां सूची ॥१॥ सीव्यतेऽनया सेवनी ॥ २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy