________________
३६२
अभिधानचिन्तामणौ
शुण्डा पानमदस्थानं शुन्यते शुण्डा पानमदयोरास्पदं कल्यपालगृहैकदेशः ॥ १ ॥
मधुवारा मधुक्रमाः ॥ ५७० ॥ मधुनो वारा अवसरा मधुवाराः ॥१॥ मधुनः क्रमा मधुक्रमाः ॥२॥ ५७० ।।
सपीतिः सहपानं स्यात् सह पानं सपीतिः ॥ १ ॥ सह पीयते सहपानम् ॥ २ ॥ .
आपानं पानगोष्ठिका। आपिबन्त्यस्मिन् आपानम् ॥ १॥ पानस्य गोष्टी आसनबन्धः ॥ २ ॥
उपदंशस्त्ववदंशश्चक्षणं मद्यपाशनम् ॥ ५७१ ॥ उपदश्यते पानरुचिजननार्थमुपदंशः ॥ १॥ अवदश्यतेऽवदंशः ॥ २ ॥ चक्ष्यते चक्षणम् ॥ ३ ॥ मद्यपस्य अशनं मद्यपाशनम् , खरविशदमभ्यवहार्यम् ॥४॥५७१ ॥
नाडिंधमः स्वर्णकारः कलादो मुष्टिकश्चसः । नाडी धमति नाडिंधमः, "नाडीघटी." ॥ ५।१।१२० ॥ इति खशि साधुः ॥ १ ॥ स्वर्ण करोति अलङ्कारादिरूपतया स्वर्णकारः ॥ २॥ कला आदत्ते कलादः, कलं सुवर्णकालिकाम् - आद्यति आखण्डयति वा, अत एव कलं धौतं यत्रेति कलधौतम् ॥ २ ॥ मुष्टिं कायति मुष्टिकः ॥ ४ ॥
तैजसावर्त्तनी मूषा तैजसं हेमादि तदावर्त्यतेऽनया तैजसावर्तनी ॥१॥ मूयते मूषा “सुपूसू." ।। ( उणा-५४२ ) इति कित् षः ॥ २ ॥
__भस्वा चर्मप्रसेविका ॥ ५७२ ॥
भसं जुहोत्यादौ स्मरन्ति, बभस्त्यनया वह्निर्भस्त्रालोहधमनी, “हुयामा." ॥ ( उणा-४५१) इति त्रः ॥ १॥ चर्मणा प्रसीव्यते चर्मप्रसेविका पुंस्त्रीलिङ्गः ॥ २ ॥ ५७२ ॥
आस्फोटनी वेधनिका आस्फोट्यतेऽनया आस्फोटनी ॥ १॥ वेध्यतेऽनया मौक्तिकादि वेधनी, के वेधनिका ॥२॥
शाणस्तु निकषः कषः ।