SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । ३६१ कमित्यन्ये ॥ २२ ॥ मदयति मदना ॥ २३ ॥ देवैः सृज्यते स्म देवसृष्टा ॥ २४ ॥ कपिशमेव कापिशं प्रज्ञादित्वादन् ॥ २५ ॥ अब्जता अब्धिजा ॥२६॥५६७॥ मध्वासवे माधवकः मधु माक्षिकं तन्मित्रे आसूयते मध्वासवस्तत्र, मधुनो विकारो माधवः, के माधवकः ॥ १ ॥ मैरेये शीधुरासवः । मीरायां देशे भवो गौड्याः मुगया विशेषो मैरेयः, नद्यादित्वादेयण, मीरे समुद्रे भव इति वा तत्र ॥ १ ॥ शेरतेऽनेन शीधुः " शीङझे धुक्” ॥ ( उणा - ७८४) ।। क्लीलिङ्गावतौ ॥ २ ॥ आसूयते आसवः ॥ 11 जगलो मेदको मद्यपङ्कः भृशं गलति जगलः, पृषोदरादित्वात् ॥ १ ॥ मेद्यति स्निह्यत्यनेन मेदकः, " नाम्नि पुंसि च " || ५|३|१२१ ॥ इति णकः ॥ २ ॥ मद्यस्य पङ्को मद्यपङ्कः ॥ ३ ॥ ', किण्वं तु नमः || ५६८ ।। नग्न हुर्मद्यबीजं च 'किणः सौत्रः, किण्यते किण्वम्, “ निघृषि " ॥ ( उणा - ५११ ) ॥ इति किद् वः ॥ १ ॥ नग्नेन ह्वयते स्पर्धते सुराच्छादनाभावात् नग्नहूः || २ || ५६८ ॥ “केवयुः” ॥ (उणा–७४६) ॥ इति निपातनाद् नग्नहुः, पुंलिङ्गावेतौ ॥३॥ मद्यस्य 1. बीजं मद्यबीजं माषादलन्यादि ॥ ४ ॥ मद्यसन्धानमा सुतिः । आसवोऽभिषवः मद्यस्य सन्धानं मद्यसन्धानम् ॥ १ ॥ आसूयते आसुतिः ॥ २ ॥ आसवनमासवः ॥ ३ ॥ एवमभिषवः ॥ ४ ॥ मद्यमण्ड कारोत्तमौ समौ ॥ ५६९ ॥ मद्यस्य मण्डो मद्यमण्डः ॥ १ ॥ कारेण क्रियावशाद् उत्तमो मुख्यः कारोत्तमः सुरा स्वच्छो भागः ॥ २ ॥ ५६९ ॥ गल्वर्कस्तु चषकः स्यात् सरकश्चानुतर्षणम् । " गलन्त्यनेन गल्वर्कः, “निष्कतुरुष्क - " ॥ ( उणा - २६ ) ॥ इति के निपात्यते ॥ १ ॥ चषन्ति पिवन्त्यनेन चषकः ॥ ९ ॥ सरन्त्यनेन सरकः, “दृकॄनृ-” ॥ ( उणा - २७ ) ॥ इत्यकः पुंक्कीच लिहावेतौ ॥ ३ ॥ अनुतृष्यन्त्यनेनाऽनुतर्षणं पानपात्रम्, अनुतर्षो । अमरस्तु सरकानुतर्षशब्दौ सुरापरिवेषणपर्यायावाह ॥ ४ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy