SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । ३५९ उपसंहारमाह इति द्वादश तद्भिदः ॥ ५६२ ॥ तेषां शूद्राणां भिदो जातिविशेषाः ॥ ५६२ ॥ माहिप्येण तु जातः स्यात् करण्यां रथकारकः । माहिष्याद् वैश्यात् क्षत्रियजातात् करण्यां शूद्रावैश्यजातायां सुतः, रथं करोति रथकारस्तक्षा ॥ १ ॥ - कारुस्तु कारी प्रकृतिः शिल्पी करोति कृणोति वा कारुः, “कृवापा-" ॥ ( उणा-१)॥ इत्युण ॥ १ ॥ ग्रहादिणिनि कारी ॥ २ ॥ प्रक्रियतेऽनया प्रकृतिः ॥ ३ ॥ शिल्पं कलाकौशलमस्त्यस्य शिल्पी ॥ ४ ॥ श्रेणिस्तु तद्गणः ॥ ५६३ ॥ तेषां कारूणां गणः, श्रीयते श्रेणिः पुंस्त्रीलिङ्गः, “कावावी.''॥ (उणा-६३४)॥ इति णिः ॥ १ ॥ ५६३ ॥ शिल्पं कला विज्ञानं च शील्यते शिल्पम्, “पम्पाशिल्पादयः" ॥ (उणा-३००) ॥ इति पे निपात्यते ॥ १॥ 'कलण् सङ्ख्यानगत्योरदन्तः' कल्यते कला "भीषिभूषि.” ॥ ५।३।१०९ ॥ इति बहुवचनाद् अङ् ॥ २ ॥ विविधं ज्ञायते विज्ञानम् ॥ ३ ॥ मालाकारस्तु मालिकः । पुप्पाजीवः . मालां स्रजं करोति प्रथ्नाति मालाकारः ॥ १ ॥ मालागुम्फनं शिल्पमस्य मालिकः,"शिल्पम्" ॥६।४।५७॥ इतीकण् , मालाऽस्य अस्तीति वा ब्रीह्यादित्वादिकः ॥ २ ॥ पुष्पैराजीवति पुष्पाजीवः ॥ ३ ॥ पुष्पलावी पुष्पाणामवचायिनी ॥ ५६४ ॥ पुष्पाणि लुनाति पुष्पलावी, “कर्मणोऽण् ' ॥ ५।३।१४ ॥ “अणज-" ॥ १।४।२० ॥ इति ङी, पुष्पाणामवचेत्री ॥ १ ॥ ५६४ ॥ कल्यपालः सुराजीवी शौण्डिको मण्डहारकः । वारिवासः पानवणिक् ध्वजो ध्वज्याऽऽसुतीबलः ॥ ५६५ ॥ कल्यं मद्यं पालयति रक्षति कल्यपालः ॥१॥ सुरया जीवति सुराजीवी ॥२॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy