SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ द्विजादिति सम्बध्यते, ब्राह्मणाद् वैश्यायां जातः, अम्बायां तिष्ठति अम्बष्ठः, “गोऽम्बाऽऽम्ब-”॥२|३|३० ॥ इति षत्वम्, “ड्यापो बहुलं नाम्नि || २|४|९९ ॥ इति ह्रखः ॥ १ ॥ ५५९ ॥ ३५८ अथ पारशवनिषादौ शूद्रयोषिति । ब्राह्मणात् शूद्रायां जातः, परपुरुषाद् भिन्नवर्णा स्त्री परस्त्री तस्या अपत्यं पारशवः, " परस्त्रियाः परशुश्चासावर्ण्य” | ६|१|४०|| इति अनि साधुः ॥ १ ॥ निषीदति निषादः, ज्वलादित्वात् णः ॥ २ ॥ क्षत्राद् माहिप्यो वैश्यायां क्षत्रियाद् वैश्यायां जातः, महिष्यां साधुर्महिष्यः प्रज्ञाद्यणि माहिष्यः, स हि अन्तःपुररक्षिता इति स्मार्तम् ॥ १ ॥ उमस्तु वृषलस्त्रियाम् ॥ ५६० ॥ क्षत्रियात् शूद्रायां जातः, उच्यत्युग्रः, “खुरक्षुर " ॥ ( उणा - ३९६ ) ॥ इति निपात्यते ॥ १ ॥ ५६० ॥ वैश्यात् तु करणः वैश्यात् शूद्रायां जातः, करोति करणः, नन्यादित्वाद् अनः ॥ १ ॥ शूद्रात् तु आयोगवो विशः स्त्रियाम् । शूद्राद् वैश्यायां जातः, अयोवद् गौरस्य अयोगुस्तस्याऽयमायोगवः ॥ १ ॥ क्षत्रियायां पुनः क्षत्ता शुद्रात् क्षत्रियायां जातः, क्षदति द्वाःस्थत्वात् क्षत्ता ॥ १ ॥ चण्डालो ब्राह्मणस्त्रियां || ५६१ ॥ शूद्राद् ब्राह्मणस्त्रियां जातः, चण्डमुद्रं कर्म अलति पर्याप्नोति चण्डालः ॥१॥ ॥ ५६१ ॥ वैश्यात् तु मागधः क्षत्र्यां वैश्यात् क्षत्रियायां जातः, मगध्यति स्तौति मगधः, प्रज्ञायणि मागधः ॥ १ ॥ वैदेहको द्विजस्त्रियां । वैश्याद् ब्राह्मण्यां जातः, वैदेह इव वैदेहको वणिक्कर्मा ॥ १ ॥ सूतस्तु क्षत्रियाद् जातः क्षत्रियाद ब्राह्मण्यां जातः, सुवति प्रेरयत्यश्वान् सूतः ॥ १ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy