SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३ मर्यकाण्डः । . ३५७ प्रतुद्यन्ते वोढारोऽनेन प्रतोदः ॥ १ ॥ प्राजन्ति प्रेरयन्त्यनेन प्रवयणम् , "त्रऽने वा" ।। ४।४।३ ।। इति विकल्पेन वीरादेशः, पक्षे प्राजनम् ॥२॥३॥ तुद्यतेऽनेन तोत्रम् , “नीदाम्ब्." ॥ ५।२।८८ ।। इति त्रट् ।।४।। अनटि तोदनम् ॥५॥ योत्रं तु योक्त्रमाबन्धः यूयते युज्यते वाऽनेन योत्रम् , योक्त्रम् , “नीदाम्ब्" ॥ ५।२।८८ ॥ इति घट् ॥ १ ॥ २ ॥ आवध्यतेऽनेन आवन्धश्चमरज्जुः ॥ ३ ॥ कोटिशो लोष्ठभेदनः ॥ ५५७ ॥ कोटिभिः कोणैः श्यति कोटिशः ॥ १ ॥ लोष्टान् भिनत्ति लोष्ठभेदनः, कोटोशोऽपि ॥ २ ॥ ५५७ ॥ मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत् । मेधन्ति संगच्छन्ते गावोऽस्यां मेधिः, "नाम्युपान्त्य-' ॥ ( उणा-६०९) ॥ इति कित् इः ॥ १ ॥ 'मिथग मेधाहिंसयोः' मेथते हिनस्ति मेथिः,"किलिपिलि-" ॥ (उणा-६०८) ॥ इति इः, पुंस्त्रीलिङ्गावेतौ ॥ २ ॥ खले वलन्ति भ्रमन्ति गावोऽनया खलेवाली, खले गोबन्धनार्थ दारु ॥ ३ ॥ ___शूद्रोऽन्त्यवर्णो वृषलः पद्यः पज्जो जघन्यजः ॥ ५५८ ॥ शीयते इति शूद्रः, “शदेरूच्च-" ॥ (उणा-३९४) इति रः ॥१॥ अन्त्यश्चासौ वर्णश्चान्त्यवर्णः ॥२॥ वर्षति वृषलः, "तृपिवपि-" ॥ (उणा-४६८) इति किदलः, वृषं लाति लुनातीति वा, नारदस्तु- “वृषो हि भगवान् धर्मस्तस्य यः कुरुते त्वलं वृषलं तं विजानीयात्" इत्याह ॥ ३ ॥ ब्रह्मणः पादयोभवः पद्यः देहांशत्वाद् यः, "हिमहति-" ॥३।२।९६॥ इति पदादेशः ॥४॥ पद्भ्यां जातः पन्जः; यत् श्रुतिः"पद्भ्यां शूदोऽजायत" इति ॥५॥ जघन्ये जातो जघन्यजः ॥६॥५५८॥ ते तु मूर्धावसिक्ताद् आरथकृद् मिश्रजातयः । ते शूदाः मूर्धावसिक्तादारभ्य रथकारं यावत् मिश्रा सङ्कीर्णाजातिरेषां मिश्र.' जातयः। .. क्षत्रियायां द्विजाद् मूर्धावसिक्तः 'सूतस्तु क्षत्रियाद् जातः' इत्यतो वक्ष्यमाणाजात इति सम्बध्यते, ब्राह्मणात्. क्षत्रियायां जातः मूर्धनि अवसिच्यते स्म मूर्धावसिक्तः ॥ १ ॥ विस्त्रियां पुनः ॥ ५५९ ॥ अम्बष्टः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy