SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३५६ अभिधानचिन्तामणौ इत्यलः ॥ २ ।। ५५४ ॥ गौर्दार्यतेऽनेन गोदारणम् || ३ || हलति हलं पुंक्ली बलिङ्गः ॥ ४ ॥ ईषसीते तद्दण्डपद्धती | ईषति ईषा लाङ्गलदण्डः ॥ १ ॥ सिनोति भुवं सीता, लाङ्गलस्य पद्धतिर्लेखेत्यर्थः ॥ २ ॥ निरीषे कुटकं निष्क्रान्ता ईषाऽस्माद् निरीषं तत्र ॥ १ ॥ कुटति कुटकं यस्याग्रे फालो बध्यते ॥ २ ॥ फाले कृषकः कुशिकः फलम् ॥ ५५५ ॥ 66 फलति विशीर्यते भूमिरनेन फालस्तत्र ॥ १ ॥ कर्षन्त्यनेन कृषकः, " कृषे. गुणवृद्धीच ॥ ( उणा - ३१) ॥ इति दिकः || २ || कुष्णाति भुवं कुशिकः 'कुशिकहृदिक- ॥ ( उणा - ४५ ) ॥ इती के निपात्यते ।। ३ ।। फलति विदारयति फलम् ।। ४ ।। ५५५ ।। "" दात्रं लवित्रं 66 दान्त्यनेन दात्रम्, “ नीदाम्बू- " ॥ ५ । २ । ८८ ॥ इति त्रट् ॥१॥ लुनन्त्यनेन लवित्रम्, "लूधूसू- " ॥ ५२८७ ॥ इति इत्रः ॥ २ ॥ तन्मुष्टौ वटः तस्य दात्रस्य मुष्टिग्रहणस्थानं तन्मुष्टिस्तत्र वण्टयते विभज्यते वण्टः ।। १ ।। मत्यं समीकृतौ । मतशब्दः साम्यपर्यायः, मतस्य करणं मत्यम्, “मतमदस्य करणे” ॥ ७ । ११४ ॥ इति यः, असमस्य समीकरणं तत्र ॥ १ ॥ गोदारणं तु कुद्दालः गौर्दार्यतेऽनेन गोदारणम् ॥ १ ॥ कुंदल्यतेऽनेन कुद्दालः पृषोदरादित्वात् पुंस्ययम्, वैजयन्ती तु - "गोदारणं कुद्दालम्” इति क्लीबमाह ॥ १ ॥ खनित्रं त्ववदारणम् ॥ ५५६ ॥ खन्यतेऽनेन खनित्रं कुद्दालादि, " लूधूसू- " ॥ ५ । २ । ८७ ।। इतीत्रः ।। १ ।। अवदार्यतेऽनेनाऽवदारणम् ।। २ ।। ५५६ ।। प्रतोदस्तु प्रवयणं प्राजनं तोत्रतोदने । १ कुः पृथिवी, इति हैममतम् ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy