SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ • ३ मर्त्यकाण्डः । ३५५ गोमान् गोमी गवीश्वरे ॥ ५५२ ॥ गावः सन्त्यस्य गोमान् , मतुः ॥१॥" गोः" ॥ ७२॥ ५० ॥ इति मिनि गोमी ॥ २ ॥ गवामीश्वरो गवीश्वरस्तत्र, गवेश्वरोऽपि ॥ ३ ॥ ५५२ ॥ - गोपाले गोधुगाभीरगोपगोसङ्ख्यवल्लवाः । गाः पालयति गोपालस्तत्र ॥ १ ॥ गां दोग्धि गोधुक् ॥ २॥ आ अभितईरयत्याभीरः, आप्नोतीति वा "जम्बोराभीर.” ॥ ( उणा-४२२ ) ॥ इतीरे निपात्यते ॥ ३ ॥ गाः पाति गोपः ॥ ३ ॥ गाः सङ्ख्याति संचष्टे वा गोसङ्ख्यः, “समः ख्यः-" ॥५।१।७७॥ इति डः ॥५॥ वल्लते वल्लवः, "वडिवटि-" ॥(उणा-५१५) । इत्यवः ॥६॥ गोविन्दोऽधिकृतो गोषु गां विन्दति गोविन्दः “निगवादेर्नाम्नि" ॥ ५।१।६१ ॥ इति शः ॥ १॥ जावालस्त्वजजीविकः ॥ ५५३ ॥ अजाः पालयतीति जावालः पृषोदरादित्वात् , जवमलति जवालइछागस्तस्याऽयमिति वा ॥१॥ अजेभ्यो जीविकाऽस्य अजजीविकः अनृतं कृषिरिति कर्षणमुक्तम् ॥ २ ॥ ५५३ ॥ अथ कृषिवृत्तीन् कृषिवलानाह कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षको । कृषीवलोऽपि कुटुम्बमस्त्यस्य कुटुम्बी ॥ १ ॥ कर्षति भुवं कर्षकः ॥ २ ॥ क्षेत्रमस्त्यस्य क्षेत्री, क्षेत्राजीवोऽपि ॥ ३॥ हलमस्त्यस्य हली ॥४॥ कर्षति कृषिकः “पापुलि-" ॥ ( उणा-४१ ) ॥ इति किदिकः कृषकोऽपि ॥५॥ " कृषेर्गुणवृद्धी च” ॥(उणा३१) ॥ इत्यके वृद्धौ च कार्षकः ॥६॥ कृषिरस्त्यस्य कृषीवलः “कृष्यादिभ्यो वलच्" ॥ ७ । २ । २७ ॥, " वलच्यऽपित्रादेः " ॥ ३।२।८२ ॥ इति दीर्घः ॥ ७ ॥ जित्या तु हलि: .. ' जीवते चिपुणेनेति जित्या, “ जिविपून्यो हलिमुञ्जकल्के " ॥ ५।१।४३ ॥ इति क्यप् ॥१॥ हलन्त्यनया हलिः महद् हलम् , “पदिपठि-" ॥(उणा-६०७)। इति इः पुंस्त्रीलिङ्गावेतौ ॥ २॥ सीरस्तु लाङ्गलम् ॥ ५५४ !! गोदारणं हलं सीयते बध्यते सीरः पुंक्लीबलिङ्गः, "चिजि-" ॥ ( उणा-३९२ ) ॥ इति रो दीर्घत्वं च ॥१॥ लङ्गति गच्छति लाङ्गलम् , “ नहिलङ्गेर्दीर्घश्च"॥ ( उणा-४६६)
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy