SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३५४ अभिधानचिन्तामणी-.. . प्रस्थैश्चतुर्भिराढकः । आढौक्यते आढकस्त्रिलिङ्गः , " कीचकपेचक-" ॥ (उणा-३३) इत्यके निपात्यते ॥ १॥ चतुर्भिराढकैयॊणः द्रवति द्रोणः पुंक्लीबलिङ्गः, “द्रोर्वा" ॥ (उणा-८४) ॥ इति णः ॥ १॥ . खारी षोडशभिश्च तैः ॥ ५५० ॥ तैद्रोणैः षोडशभिः खन्यते खारी, " द्वारकार-" ॥ ( उपा-४१७) इत्यारे निपात्यते ॥ १॥ ५५० ॥ अथ पाय्यमाह चतुर्विंशत्यङ्गुलानां हस्तः हस्यतेऽनेन हस्तः ॥ १॥ दण्डश्चतुष्करः। दाम्यति दण्डश्चतुर्हस्तः ॥ १॥ तत् सहस्रौ तु गव्यूतं क्रोशः तेषां दण्डानां द्वौ सहस्रौ गवां यूतिरत्र गव्यूतं पृषोदरादित्वात्॥ १ ॥ क्रुश्यते उच्यतेऽध्वपरिमाणमस्मात् क्रोशः ॥ २ ॥ तौ द्वौ तु गोरुतम् ॥ ५५१ ॥ गव्या गव्यूतगव्यूती - तौ कोशौ द्वौ गवां रुतमत्र गोरुतम् ॥ १ ॥ ५५१ ॥ गोभ्यो हिता गव्या ॥ २॥ गवां यूतिरत्र गव्यूतम् ॥ ३॥ गवां यूतिर्गव्यूतिः पुंस्त्रीलिङ्गः पृषोदरादित्वात् ॥ ४॥ चतुष्क्रोशं तु योजनम् । चत्वारः क्रोशाः समाहृता अत्र चतुष्कोशम् , युज्यतेऽनेन योजनम् , यदाह-हस्तोऽङ्गुलविंशत्या चतुरन्वितया चतुष्करो दण्डः । ___ तद्धि सहस्र कोशो योजनमेकं चतुष्कोशः" इति ॥ १ ॥ वाणिज्यमुक्तम् पाशुपाल्यमाह पाशुपाल्यं जीववृत्तिः पशुपालस्य भावः कर्म वा पाशुपाल्यम्, राजादित्वाद् दयण ॥१॥ जीवपालनाद् वर्तनं जीववृत्तिः ॥२॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy