SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ -३५२ अभिधानचिन्तामणौ परिवृत्त्यापमित्यकम् ॥ ५४५ ॥ परिवृत्त्या आप्तं अपमित्य प्रतिदानेन निर्वृत्तमापमित्यकम्, “ याचिता." . ॥ ६।४।२३ ॥ इति कण् ॥ १ ॥ ५४५ ॥ अधमर्णो ग्राहकः स्यात् ऋणेऽधमोऽधमर्णः, राजदन्तादित्वात् पूर्वनिपातः ॥ १॥ गृह्णाति प्राहकः ॥२॥ उत्तमर्णस्तु दायकः । ऋणे उत्तमः उत्तमर्णः ॥ १ ॥ ददाति इति दायकः ॥ २ ॥ प्रतिभूर्लग्नकः "क्षु. प्रतिनिधिः प्रतीतो वा भवति प्रतिभूः ॥१॥ लगति सम्बध्यते लग्नः, ब्धविरिब्ध-” ॥ ४|४|१७ ॥ इति साधुः, के लग्नकः ॥ २ ॥ साक्षी स्थेयः " साक्षात् दृष्टा साक्षी "साक्षाद् द्रष्टा- " ॥ ७ । ९ । ११७॥ इतीन्, “प्रायोऽव्ययस्य ॥ ७|४|६५ ॥ इत्यन्त्यखरादिलोपः ॥ १ ॥ तिष्ठन्त्यस्मिन् इति स्थेयः विवादपदे निर्णेता प्रमाणभूतः पुरुषः || २ | शपश्चात्रे - - अथ साक्षिणि स्याद् मध्यस्थः प्राश्निकोऽप्यथ । कूटसाक्षी मृषासाक्ष्ये सूची स्याद् दुष्टसाक्षिणि ॥ आधिस्तु बन्धकः || ५४६ ॥ आधीयतेऽसौ आधिः ॥ १ ॥ बध्यते संबध्यते . बन्धकः, . ( उणा - २७ ) इत्यकः ॥ २ ॥ ५४६ ॥ अथ मानविशेषानाहतुलाद्यैः पौतवं मानं द्रोर्विकारो द्रुवयं मानम्, पाय्यं हस्तादिभिः "" 1) तुला पदवती प्रतिमानवती च तदाद्यैर्यद् मीयते तन्मानम्, पुनातीति पोतुर्मानभाण्डशोधकः पौतवाध्यक्षः, “ कृसिकमि- ॥ ( उणा - ७७३ ) इति तुन्, पोतोरिदं पौतवम् ॥ १ ॥ द्रुवयं कुडवादिभिः । " द्रोर्वयः " ॥ ६२ । ४३ ॥ १ ॥ दकतἐξ ἐ 66 ॥ "" मीयतेऽनेन पाय्यं मानम्, धाय्यापाय्य- ॥ ५ । १ । २४ ॥ इति ध्याणि निपात्यते ॥ १ ॥ { तत्र स्याद् गुञ्जाः पञ्च माषकः || ५४७ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy