SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३. मर्त्यकाण्डः । “एकं दश शतमस्मात् सहस्रमयुतं ततः परं लक्षम् । प्रयुतं कोटिमथाऽर्बुदमब्जं खर्वे निखर्व च ॥ १ ॥ तस्माद् महासरोजं शङ्कं सरितां पतिं ततस्त्वन्त्यम् । मध्यं परार्ध्यमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः " ॥१॥ इति ॥ १८ ॥ ५३८ ॥ असङ्ख्यं द्वीपवार्ध्यादि ३४९ न विद्यते सङ्ख्या सङ्ख्यानमस्य असङ्खयम् ॥ १ ॥ द्वीपा जम्बूद्वीपादयः, बार्धयो लवणोदादयः, आदिग्रहणात् चन्द्राऽर्कादयः, यदाहुः - "असङ्ख्याता द्वीपसमुद्राः" इति । पुद्गलाऽऽत्माद्यऽनन्तकम् । पुद्गलः आत्मा च आदिर्यस्य तत् तथा, आदिग्रहणाद् आकाशप्रदेशादि, नास्त्यन्तोऽस्य अनन्तकम् ॥ १ ॥ सांयात्रिकः पोतवणिक् समुदितानां यात्रा संयात्रा, सा प्रयोजनमस्य सांयान्त्रिकः ॥ १ ॥ पोतस्य वणिक् पोतवणिक् ॥ २ ॥ यानपात्रं वहित्रकम् || ५३९ ॥ वोहित्थं कहनं पोतः जलमार्गे यानाय पात्रं यानपात्रम् ॥ १ ॥ उह्यतेऽनेन वहति जले वा वहित्रम्, “बन्धिवहि-" ॥ ( उणा - ४५९) इति इत्रः ॥ ५३९ ॥, “पथयूथ - " ॥ ( उणा- २३१) ॥ इति निपातनाद् वोहित्थम्, बहिस्तिष्ठतीति वा पृषोदरादित्वात् ॥२॥ ३॥ उद्यतेऽनेन वहनम् प्रवहणमपि ॥ ४ ॥ पूयते इति पोतः ' “दम्यमि - " ॥ ( उणा - २०० ) इति तः ॥ ५ ॥ पोतवाहो नियामकः । निर्यामः पोतं वाहयति पोतवाहः ॥ १ ॥ नियन्तुं शक्नोति नियामकः ॥ २ ॥ निर्यामयति निर्यामः ॥ ३॥ कर्णधारस्तु नाविकः कर्णमरित्रं धारयति कर्णधारः, यद् दुर्ग :- “कर्णः श्रोत्रमरित्रं च” इति ॥१॥ नावा तरति नाविकः, “ नौद्विस्वरादिकः " || ६|४|१० ॥ २ ॥ नौस्तु मङ्गिनी || ५४० ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy