________________
३४८
अभिधानचिन्तामणौ
संख्या त्वेकादिका भवेत् ॥ ५३६ ॥ एत्येकत्वसङ्ख्यामित्येकः, “भीण्-'" ॥ ( उणा-२१)॥ इति कः, एकआदिरस्या एकादिका, आदिग्रहणात् द्वौ त्रयः चत्वारः एते वाच्यलिङ्गाः, पञ्चसप्तेत्यादयोऽष्टादशान्ता अलिङ्गाः, यदवोचाम
"नन्ता सङ्ख्या डतिर्युष्मदस्मच स्युरलिङ्गकाः" । इति षष्-शब्दस्य रूपविशेषाभावात् लिङ्गनिर्णयो नोक्तः, एकोनविंशति-त्रिंशदित्यादयः शतादर्वाक् स्त्रीलिङ्गाः, यदवोचाम स्त्रीलिङ्गनिर्णये- “विंशत्याद्या शताद् द्वन्द्वे" इति । षष्टिस्तु त्रिलिङ्गनिर्णये पृथक्लिङ्ग उक्तः। अत्र च एकाद्या अष्टा दशान्ता सङ्खयेये वर्तन्ते, विंशत्याद्यास्तु सङ्ख्याशब्दा एकत्वे वर्तमानाः सङ्खयेये सङ्खयाने च वर्तन्ते,यथा विंशतिर्घटाः, विशतिर्घटानाम् ; शतं गावः, शतं गवामिति। यदाह वाचस्पतिः- "अष्टादशभ्य एकाद्याः सङ्ख्याः सङ्खयेयगोचराः। ..
___ऊनविंशत्यादिकास्तु सर्वाः सङ्खयेयसङ्ख्ययोः,, ॥ १॥ भाष्यकारोऽप्याह- "अष्टादशभ्यः सङ्ख्या सङ्खयेये वर्तते, ततः परं सङ्ख्याने सङ्खयेये च" इति । द्वित्वबहुत्वयोर्वर्तमानास्तु विंशत्याद्याः सङ्ख्यायामेव वर्तन्ते, यथा द्वे विंशती, तिस्रो विंशतयः; गवां विंशती, विंशतय इति ॥ १ ॥ ५३६ ।।
यथोत्तरं दशगुणं भवेदेको दशायुतः । शतं सहस्रमयुतं लक्षप्रयुतकोटयः ॥५३७॥ अर्बुदमब्जं खर्व च निखर्व च महाम्बुजम् ।
शङ्कुर्वार्चिरन्त्यं मध्यं परार्द्ध चेति नामतः ॥ ५३८ ॥ एको दशभिर्गुणितो दश्यन्ते दश, “लूप्यु-” ॥ ( उणा-९०१ ) ॥ इति किदन् ॥१॥ एवं यथोत्तरं दशभिर्गुणिताः, दशदशतो मानमेषां संख्ये. यानाम् , अस्य वा संख्यानमस्य शतम् ॥ १ ॥ एवं दश शतानि मानमेषामस्य वा सहस्रम् , दश सहस्राण्ययुतम् , शतादयस्त्रयः पुंक्लीबलिङ्गाः ॥१॥१॥ दशाऽयुतानि लक्षं स्त्रीक्लीबलिङ्गः, नियुतमपि ॥ १ ॥ दश लक्षाणि प्रयुतं पुंक्लीबलिङ्गः ॥१॥ दश प्रयुतानि कोटिः स्त्रीलिङ्गः ॥१॥ ५३७ ॥ दश कोटयोऽबुदं पुंक्लीबलिङ्गः ॥ १ ॥ दशाऽर्बुदानि अब्जम् ॥ १॥ दशाऽब्जानि खर्वम् ॥ १ ॥ दश खर्वाणि निखर्वम् ॥ १॥ दश निखर्वाणि महाम्बुजम् ॥१॥ दश महाम्बुजानि शङ्कः, पुंस्त्रीलिङ्गः ॥ १४ ॥ दश शङ्कवो वार्द्धिः समुद्रः, पुंलिङ्गः ॥ १॥ दश वार्द्धयोऽन्त्यम् ॥ १॥ दशान्त्यानि मध्यम् ॥ १॥ दश मध्यानि परार्द्धमिति ॥१॥ शतादयः “ विंशत्यादयः.”॥ ६ । ४ । १६३ ॥ इति निपात्यन्ते, यदाह