SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ . ३ मत्यकाण्डः । ३४७ निक्षिप्यते भूतलादौ इति निक्षेपः ॥ १॥ उपसृत्य समीपे वा निधीयते उपनिधिः, उप समीपे निधिर्वा ॥ २॥ न्यस्यते निक्षिप्यते न्यासः तत्र-स्मात त्वेषां भेदोऽस्ति- “वासनस्थमनाख्याय हस्तेऽन्यस्य यदऽर्पितम् ।। द्रव्यं तदुपनिधिासः प्रकाश्य स्थापितं तु यत् ॥१॥ विक्षेपः शिल्पिहस्ते तु भाण्डं संस्कर्तुमर्पितम्” । इति प्रतिदानं तदर्पणम् ॥ ५३४ ॥ तस्य न्यासस्य निक्षिप्त्रे प्रतीपं दानं प्रतिदानम् , परिदानमित्येके ॥१॥५३४॥ क्रेतव्यमात्रके क्रेयं क्रीयते केयम् , यथा केये गौवर्तते, न च क्रय्योऽस्ति ॥ १ ॥ क्रय्यं न्यस्तं क्रयाय यत् । क्रयनिमित्तमापणे न्यस्तम् , क्रीयते क्रय्यम् , “क्रय्यः क्रयार्थे." ॥४।३।९१॥ इति साधुः ॥ १॥ पणितव्यं तु विक्रेयं पण्यं पण्यते पणितव्यम् ॥१॥ विक्रीयते विक्रेयम् ॥ २॥ पण्यते पण्यम् ," वर्योपसर्या-" ॥ ५।१।३२ ॥ इति ये साधुः ॥ ३ ॥ सत्यापनं पुनः ॥ ५३५॥ सत्यङ्कारः सत्याकृतिः अवश्यं मयैतद् विक्रेतव्यमिति सत्यस्य करणं सत्यापनम् , "सत्यार्थवेदस्याः-" ॥ ३।४।४४ ॥ इति णिचिं आकारादेशे च “ अर्तीरी-” ॥ ४।२।२१ ॥ इति पोऽन्तः ॥१॥५३५॥ सत्यस्य करणं सत्यङ्कारः “सत्यागदास्तोः कारे"॥३।२।११२॥ इति मोऽन्तः ॥ २ ॥ “सत्यादशपथे" ॥ ७।२।१४३ ॥ इति डाचि क्तौ च सत्याकृतिः ॥ ३॥ तुल्यौ विपणविक्रयौ। ...विपणनं विपणः, चुराद्यदन्ताद् अपरिपठितादल्, अन्यथा विपाणः स्यात् ॥१॥ विक्रयणं विक्रयः ॥ २॥ गण्यं गणेयं संख्येयं गण्यते गण्यम् ॥१॥ गणेयम् , “गयहृदयादयः" ॥ (उणा-३७०) ॥ इति एये निपात्यते, यद्वाचस्पतिः-“गणनीयं तु गणेयम्” इति ॥२॥ सङ्ख्यायते सङ्ख्येयं . गण्य ग
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy