SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३४६ अभिधानचिन्तामणौ- ... इति इकः, आपणः प्रयोजनमस्येति वा, प्रापणिकोऽपि ॥ ५ ॥ निगमे पुरे मार्गे वा भवो नैगमः ॥ ६ ॥ ५३१ ॥ विदेहे उपचये भवो वैदेहः ॥ ७ ॥ सार्थान् सधनान् सरतो वा पान्थान् वहति सार्थवाहः ॥ ८ ॥ क्रायकः क्रयिकः क्रयी। क्रीणाति मूल्येन भाण्डं क्रायकः ॥ १॥ क्रयेण जीवति क्रयिकः “व्यस्ताद्-" ॥ ६ । ४ । १६ ॥ इतीकः ॥ २ ॥ क्रयोऽस्त्यस्य क्रयी ॥ ३ ॥ केयदे तु विपूर्वास्ते क्रेयं क्रेतव्यं ददाति क्रेयदस्तत्र विशब्दपूर्वास्ते क्रायकादयः-विक्रायकः ॥१॥ विक्रयिकः ॥ २ ॥ विक्रयी ॥ ३ ॥ मूल्ये वस्त्रार्घवक्रयाः ॥ ५३२ ॥ मूलेनाऽऽनाम्यं मूल्यं तत्र, “ हृद्यपद्य-" ॥ ७।१।११ ॥ इति यः ॥ १ ॥ वसत्यस्मिन् पण्यं वस्नः पुंक्लीबलिङ्गः, “प्याधापनि-" ॥ ( उणा-२५८ ) इति नः ॥ २ ॥ अर्यते पण्यमस्मिन् अर्घः, “स्थाति-" ॥ (उणा-१०९)॥ इति घः; अर्घति पण्यमत्रेति वा ॥ ३ ॥ अवक्रीयतेऽनेन अवक्रयः, “ वाऽवाप्यो-" ॥३।२। १५६॥ इति वादेशे वक्रयः ॥ ४ ॥ ५३२ ॥ , शेषश्चात्र-अथ वक्रये भाटकः ॥ मूलद्रव्यं परिपणो नीवी मूलं लाभकरणं द्रव्यं मूलद्रव्यम् ॥ १ ॥ परिपण्यते वृद्ध्यर्थं प्रयुज्यते परिपणः, " पणेर्माने-" ॥ ५।३।३२ ॥ इत्यल् ॥ २ ॥ चीयते वृद्धिमसौ नीविः, ट्यां नीवी ॥ ३ ॥ लाभोऽधिकं फलम् । मूलधनाद् यदधिकं निष्पन्नम् , स लभ्यते इति लाभः ॥ १ ॥ फलति फलं कलान्तरादि ॥ २॥ परिदानं विनिमयो नैमेयः परिवर्तनम् ॥ ५३३ ॥. व्यतिहारः परावर्तों वैमेयो निमयोऽपि च । परिवर्ताद् दानं परिदानम् ॥ १ ॥ विनिमानं विनिमयः ॥ २ ॥ निमेये परिवर्तनीये भवो नैमेयः ॥ ३ ॥ परिवर्त्यते परिवर्तनम् ॥ ४ ॥ ५३३ ॥ व्यत्ययेन हरणं व्यतिहारः ॥ ५॥ परावर्तन परावर्त्तः ॥ ६॥ विमेये परिवर्तनीये भवो वैमेयः ॥ ७ ॥ निमानं निमयः ॥ ८ ॥ निक्षेपोपनिधी न्यासे
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy