SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ . ३ मत्यकाण्डः । ३४५ कणिशाद्यर्जनं शिलम् ॥ ५२९ ॥ कणिशं धान्यमञ्जरी आदिशब्दात् शिबादि तस्यार्जनं प्रहणम् , 'शिलत् उञ्छे' शिल्यते शिलम् , “तुदादि-" ॥ ( उणा-५) ॥ इति किदः ॥१॥५२९॥ ऋतं तद् द्वयम् तदुभयमुञ्छशिलं ऋतं सत्यं धर्मत्वात् ॥ १ ॥ अनृतं कृषिः न ऋतमनृतं पापिष्ठत्वात् , प्रमृतमित्यन्ये ॥ १॥ मृतं तु याचितम् । मृतं निर्जीवमिव ॥ १ ॥ याच्यते स्म याचितम् ॥ २ ॥ अयाचितं स्यादमृतं न याचितमयाचितम् ॥ १॥ अमृतमविनश्वरम् ॥ २ ॥ सेवावृत्तिः श्वजीविका ॥ ५३० ॥ सेवालक्षणा वृत्तिः सेवावृत्तिः ॥ १॥ शुन इव जीविका वृत्तिः परपिण्डोपजीवित्वादधमेत्यर्थः ॥ २ ॥ ५३० ॥ सत्यानृतं तु वाणिज्यं वणिज्या किञ्चित् सत्यं किञ्चिदसत्यं सत्यानृतम् ॥ १ ॥ वणिजः कर्म वाणिज्यं राजादित्वाद् ट्यण् ॥ २ ॥ “सखिवणिग्दूताद्-" ॥ ७।१।६३ ॥ इति ये वणिज्या स्त्रीक्लीबलिङ्गः, यन्मनु: "ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ १॥ सत्यानृतं तु वाणिज्यं तेनाऽपि खलु जीव्यते । सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत्” ॥ इति ॥ २॥ वाणिजो वणिक् । क्रयविक्रयिकः पण्याजीवाऽऽपणिकनैगमाः ॥ ५३१ ॥ वैदेहः सार्थवाहश्च वणिगेव वाणिजः, प्रज्ञादित्वादण् ॥ १॥ पणायति व्यवहरते वणिक् "भृपणिभ्याम्-" ॥ ( उणा-८७५) ॥ इतीज् वणादेशश्च ॥ २ ॥ क्रयविक्रयेण जीवति क्रयविक्रयिकः “व्यस्ताच्च क्रयविक्रयाद्-"॥६।४।१६॥ इतीकः ॥३॥ पण्येनाऽऽजीवति पण्याजीवः ॥४॥ आपणायतीत्यापणिकः “आङः पणिपनि-" ॥ (उणा-३९)॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy