SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । ३४३ वीरोज्झो न जुहोति यः । वीरमग्निमुज्झति वीरोज्झः ॥ १॥ अग्निहोत्रच्छलाद् याञ्चापरो वीरोपजीवकः ॥ ५२४ ॥ वीरमग्निमुपजीवति वीरोपजीवकः ॥ १ ॥ ५२४ ॥ वीरविप्लावको जुहद् धनैः शूद्रसमाहृतैः । वीरमग्निं विप्लावयति वीरविप्लावकः ॥ १ ॥ स्याद्वादवाद्याऽऽर्हतः स्यात् स्याद्वादोऽनेकान्तवादस्तं वदति स्याद्वादवादी, अनेकान्तवाद्यऽपि ॥१॥ अर्हन् देवताऽस्य आहेतः, जैनोऽपि ॥ २ ॥ शून्यवादी तु सौगतः ॥ ५२५ ॥ शून्यं निराकारं वदति शून्यवादी ॥ १॥ सुगतो देवताऽस्य सौगतः, बौद्धोऽपि ॥ २ ॥ ५२५ ॥ नैयायिकस्त्वाक्षपादो योगः न्यायः पञ्चावयववाक्यादिः,तं वेत्त्यधीते वा नैयायिकः, न्यायादित्वाद् इकण् , " य्वः पदान्ताद्.” ॥ ७ । ४ । ५ ॥ इत्यैकारागमः ॥ १॥ अक्षस्तृतीयनेत्रं पादेऽस्य अक्षपादः, अक्षपादस्यायमाक्षपादः ॥२॥ योगः प्रत्याहारादिः, तं वेत्त्यधीते यौगः, “ तद्वेत्य-" ॥ ६ ॥ २ ॥ ११७ ॥ इत्यण् ॥ ३ ॥ साङ्ख्यस्तु कापिलः। पञ्चविंशतेस्तत्वानां सङ्ख्यानं संख्या, तदधिकृत्य कृतं शास्त्रं साङ्ख्यम् , तद्वेत्यधीते वा साङ्ख्यः ॥ १॥ कपिलेन कृतो ग्रन्थः कापिलः, तं वेत्यधीते वा कापिलः, कपिलस्यायमिति वा ॥ २ ॥ वैशेषिकः स्यादौलूक्यः . . नित्यद्रव्यवृत्तयोऽत्र विशेषाः, ते प्रयोजनमस्य वैशेषिकं शास्त्रं तद् वेत्यऽधीते वा वैशेषिकः ॥१॥ उलूकस्यापत्यमिव तज्जन्यत्वादौलूक्यं शास्त्रम् , उलूकवेषधारिणा महेश्वरेण प्रणीतमिति प्रसिद्धिः, गर्गादित्वाद् यञ् , तत्र साधुरौलूक्यः ॥ २ ॥ वार्हस्पत्यस्तु नास्तिकः ॥ ५२६ ॥ चार्वाको लौकायतिकश्च . बृहस्पतिना कृतं बार्हस्पत्यं शास्त्रम् , तत्र साधुर्वार्हस्पत्यः, बृहस्पतेरयं शिष्यइति वा “अनिदमि-" ॥ ६।१।१५ ॥ इति ज्यः ॥ १॥ नास्ति पुण्यं पापमिति
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy