SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३ मकाण्डः । क्षततोऽवकीर्णी स्यात् क्षतं विलुप्तं व्रतमनेन क्षतत्रतः ॥ १ ॥ अवान्तरे कीर्ण रेतोऽस्याऽस्त्यव - कीर्णी, यत् स्मृतिः - ब्रह्मचार्यवकीर्णी स्यात् कामतस्तु स्त्रियं व्रजन् ॥ २ ॥ व्रात्यः संस्कारवर्जितः | ५१८ ॥ व्रते साधुः कालो व्रत्यस्तत्र भवो व्रात्यः प्रायश्चित्तार्हः, बाते वृन्दे साधुरिति वा पृथग् व्यपदेश्यो न इत्यर्थः, संस्कारोऽत्रोपनयनं तेन वर्जितः यन्मनुः - अत ऊर्ध्वं त्रयोऽप्येते यथाकालम संस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ १ ॥ ५१८॥ शिश्विदानः कृष्णकर्मा ३४१ श्वेतते शिश्विदानः, “मुमुचानयुयुधान " ॥ ( उणा - २७८ ) ॥ इत्याने निपात्यते ॥१॥ कृष्णं मलिनं कर्माऽऽचारोऽस्य कृष्णकर्मा दुराचारः, “शिश्विदानः कृष्णकर्मा" इत्यमरः || २ | ब्रह्मबन्धुर्द्विजोऽधमः । ब्रह्मा बन्धुरेवाऽस्य ब्रह्मबन्धुः ॥ १ ॥ नष्टग्निहा " नष्ट उच्छिन्नोऽग्निरस्य नष्टानिः ॥ १ ॥ वीरयते वीरोऽग्निः, तमुपेक्षया हन्ति वीरहा, “ब्रह्मभ्रूण- ॥ ५ । १ । १६१ ॥ इत्यत्र ब्रह्मादिभ्यः एव हन्तेः किबिति भूते निपातनात् वर्तमाने “ क्विप् " ||५|१|१४८ ॥ इति क्विप् ॥ २ ॥ जातिमात्रजीवी द्विजब्रुवः ॥ ५१९ ॥ जातिमात्रेण जीवति जातिमात्रजीवी ॥ १ ॥ द्विजश्वाऽसौ ब्रुवश्च द्विजब्रुवः, " निन्द्यं कुत्सनैरपापाद्यैः " ॥ ३ । १ । १०० ॥ इति कर्मधारयः ॥२॥५१९॥ धर्मध्वजी लिङ्गवृत्तिः धर्मस्य ध्वजश्चिह्नमेवाऽस्त्यस्य धर्मध्वजी ॥ १ ॥ लिङ्गाद् जटादेर्वृत्तिजीविकाऽस्य लिङ्गवृत्तिः ॥ २ ॥ . वेदहीनो निराकृतिः । ४४ वेदेन खाध्यायेन हीनो वेदहीनः ॥ १ ॥ आकृतेर्जातेर्निष्क्रान्तो निराकृतिः, यत् स्मृतिः - अनधीत्य तु यो वेदान् अन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २ ॥ वार्त्ताशी भोजनार्थं यो गोत्रादि वदति स्वकम् ॥ ५२ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy