________________
३४०
अभिधानचिन्तामणौ
गोनींये पतञ्जलिः ॥ ५१५ ॥ गोनर्दे भवो गोनर्दीयः,"दोरीयः" ॥ ६।३।३२ ॥ तत्र ॥ १॥ पतति पतः, पतोऽजलेः पतञ्जलिः, पृषोदरादित्वात् ॥ २ ॥ ५१५ ॥
__ कात्यायनो वररुचिर्मेधाजिच्च पुनर्वसुः ।
कतस्यापत्यं कात्यः, तस्यापत्यं कात्यायनः “यजिञः" ॥६।१।५४ ॥ इत्यायनण् , कात्योऽप्यभेदोपचारात् ॥ १ ॥ वरा रुचिरस्य वररुचिः ॥२॥ मेधया जयति मेधाजित् ॥ ३ ॥ पुनरपि वस्खस्य पुनर्वसुः, पुनर्वखोर्जात इति वा ॥ ४ ॥
___ अथ व्याडिविन्ध्यवासी नन्दिनीतनयश्च सः ॥ ५१६ ।। विशेषेण आसमन्ताद् अडति उद्यच्छते, डीयते खे चरतीति वा व्याडिः, पृषो. दरादित्वात् ॥ १ ॥ विन्ध्ये वसति विन्ध्यवासी ॥ २ ॥ नन्दिन्यास्तनयो नन्दिनीतनयः ॥ ३ ॥ ५१६ ॥
स्फोटायने तु कक्षीवान् स्फोटं शब्दस्फोटमयते स्फोटवादित्वात् स्फोटायनस्तत्र, स्फुटस्थापत्यमित्यश्वाद्यायनञि, स्फोटनोऽपि ॥ १ ॥ कक्षावद् योगोऽस्त्यस्य कक्षीवान् “चर्मणवत्यष्ठीवद्." ॥ २।१।९६ ॥ इति मतौ निपात्यते ॥ २ ॥
पालकाप्ये करेणुभूः । पालकैहस्तिचिकित्सकैराप्यते आप्तत्वेन गम्यते पालकाप्यस्तत्र ॥ १ ॥ करेणोः करिण्या भवति करेणभूः, कारेणवोऽपि ॥ २ ॥
वात्स्यायने मल्लनागः कौटिल्यश्चणकात्मजः ॥ ५१७ ।।
द्रामिलः पक्षिलखामी विष्णुगुप्तोऽङ्गुलश्च सः । वत्सस्यापत्यं वात्स्यः, तस्यापत्यं वात्स्यायनः, “यजिजः " ॥ ६।१।५४ ।। इत्यायनण् , तत्र ॥१॥ मल्लो नवनन्दोच्छेदने स चासौ नागश्च मल्लनागः “वृन्दारकनागकुञ्जरैः" ॥३।१।१०८।। इति कर्मधारयः ॥ २ ॥ कुटो घटस्तं लान्ति कुटिलाः कुम्भीधान्याः, तेषामपत्यं कौटिल्यः, गर्गादित्वाद् यञ् ॥ ३ ॥ चणकस्य ऋषे. रात्मजश्चणकात्मजः, चाणाक्योऽपि ॥ ४ ॥ ५१७ ॥ द्रमिलदेशे भवो द्वामिल: ॥५॥ प्रशस्तौ पित्रोः पक्षावस्य स्तः पक्षिलः, स चासौ स्वामी पक्षिलवामी ॥६॥ विष्णुरेनं गुप्यादिति विष्णुगुप्तः, “तिक्कृतौ नाम्नि" ॥ ५।१।७१॥ इति क्तिः ॥ ७ ॥ अङ्गु शरीरावयवं लाति अङ्गुलः, हीनाङ्गुलिरस्याऽस्तीति वा " हीनात् स्वाशादः" ।। ७।२।४५ ॥