SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । ३३९ नारं नरसमूह द्यति भिनत्ति कलहरुचिवान् नारदः॥ १॥ देवानां ब्रह्मा देवब्रह्मा ॥२॥ पिशुनयति कथयति पिशुनः ॥ ३ ॥ कलिं करोति कलिकारकः ॥ ४॥ __ वशिष्ठोऽरुन्धतीजानिः अतिशयेन वसुमान् वशिष्ठः, "गुणाङ्गाद." ॥ ७।३।९ ॥ इति इष्ठे "विन्म. तोर्णीष्ठे-" ॥ ७।४।३२ ॥ इति मतोलपि "त्रन्त्यस्वरादेः" ॥ ७॥४।४३ ॥ इत्यन्तस्वरादिलोपः ॥ १ ॥ अरुन्धती जायाऽस्य अरुन्धतीजानिः “जायाया जानिः" ॥ ७॥३।१६४ ॥ इति जान्यादेशः ॥ २ ॥ ___ अक्षमाला त्वरुन्धती ॥ ५१३ ॥ अक्षाणां मालाऽस्या अक्षमाला, न क्षमां लातीति वा खगामित्वात् ॥ १॥ न रुणद्धि अरुन्धती ॥ २ ॥ ५१३ ॥ त्रिशङ्कयाजी गाधेयो विश्वामित्रश्च कौशिकः । त्रिशकुं याजयतीति त्रिशङ्खयाजी ॥ १ ॥ गाधेरपत्यं गाधेयः, "इतोऽनिञः' ।। ६।१।७२ ॥ इत्येयण, गाधिनन्दनोऽपि ॥२॥ विश्वं मित्रमस्य विश्वामित्रः, "ऋषौ विश्वस्य मित्रे” ॥ ३।२।७९ ॥ इति दीर्घः ॥३॥ कुशिकस्यापत्यं कौशिकः, विदादित्वादञ् ॥ ४ ॥ कुशारणिस्तु दुर्वासाः कुशारणिग्रहणातू कुशारणिः ॥ १ ॥ दुष्टं वासोऽस्य दुर्वासाः ॥ २॥ शतानन्दस्तु गौतमः ॥ ५१४ ॥ शतं बहूनानन्दयति शतानन्दः ॥ १॥ गोतमस्यापत्यं गौतमः, “ऋषिवृष्ण्य." ॥ ६।१।६१ ॥ इत्यण् ॥ २ ॥ ५१४ ॥ याज्ञवल्क्यो ब्रह्मरात्रियोंगेशोऽपि यज्ञवल्कस्यापत्यं याज्ञवल्क्यः , गर्गादित्वाद् यञ् ॥१॥ ब्रह्मैव रात्रिरस्य सदायोगनिद्रापरवशत्वाद् ब्रह्मरात्रिः ॥ २ ॥ योगस्य ईशो योगेशः, योगीशोऽपि ॥३॥ अथ पाणिनौ। सालातुरीयदाक्षेयौ पणिनोऽपत्यं पाणिनः “डसोऽपत्ये" ॥६।१।२८॥ इत्यण् ,“ गाथिविदथि-" ॥ ७।४।५४ ॥ इत्यन्तस्वरादिलोपनिषेधः, ततः पाणिनस्यापत्यं पाणिनिः, “अत इञ्' ॥ ६।१।३१ ॥ तत्र, सलातुरभिजनो निवासोऽस्य सालातुरीयः, “सलातुरादीयण” ॥ ६।३।२१७ ॥ दाक्ष्या अपत्यं दाक्षेयः, "डयाप्त्यूङः” ॥ ६।११७० ॥ इत्येयण , दाक्षीपुत्रोऽपि ॥ ३ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy