________________
३३८
अभिधानचिन्तामणौ- -
यन्मनु:
प्रोवृते दक्षिणे पाणावुपवीत्युच्यते द्विजः । सव्ये प्राचीनमावीती निवीती कण्ठसर्जने ॥ ५०९ ॥ प्राचेतसस्तु वाल्मीकिर्वल्मीककुशिनौ कविः ।
मैत्रावरुणवाल्मीको प्रचेतसोऽपत्यं प्राचेतसः ॥ १॥ वल्मीकस्यापत्यं वाल्मीकिः, बाह्वादित्वादिञ् ॥ २ ॥ वल्मीकभवत्वाद् वल्मीकः ॥ ३ ॥ कुशाः सन्त्यस्य. कुशी ॥ ४ ॥ कवते कविः, आदिकविरपि ॥ ५ ॥ मित्रावरुणयोरयं मैत्रावरुणः, मैत्रावरुणिरपि ॥ ६ ॥ वल्मीकस्यायं वाल्मीकः ॥ ७ ॥
वेदव्यासस्तु माठरः ॥ ५१०॥ द्वैपायनः पाराशर्यः कानीनो बादरायणः । व्यासः
वेदार्थान् व्यासयति प्रपञ्चयति वेदव्यासः, यद् भारते- “वेदार्था भारते न्यस्ताः' इति ॥१॥ मठरस्यापत्यं माठरः विदादित्वादञ् ॥२॥५१०॥ द्विपस्यापत्यं द्वैपायनः, नरादित्वादायनण् ॥३॥ पराशरस्यापत्यं पाराशर्यः, गर्गादित्वाद् यञ् ॥४॥ कन्याया अपत्यं कानीनः "कन्यात्रिवेण्या-" ॥ ६।१।६२ ॥ इत्यणि साधुः ॥ ५॥ बादरस्यापत्यं बादरायणः, नडादित्वादायनण् ॥ ६ ॥ व्यासयति प्रपञ्चयति शुभाऽशुभमिति व्यासः ॥ ७ ॥
अस्याऽम्बा सत्यवती वासवी गन्धकालिका ॥ ५११ ॥ योजनगन्धा दाशेयी शालकायनजा च सा।
अस्य व्यासस्य अम्बा जननी, सत्यमस्त्यस्याः सत्यवती ॥ १॥ वसोरियं वासवी ॥२॥ गन्धेन युक्ता काली श्यामा गन्धकाली, के गन्धकालिका ॥३॥५११॥ योजन व्यापी गन्धः सौरभ्यमस्या योजनगन्धा ॥ ४ ॥ दाशी धीवराङ्गना तस्या अपत्यं दाशेयी ॥ ५ ॥ शालङ्कायनाज्जाता शालङ्कायनजा ॥ ६॥ शेषश्चात्र-सत्यवत्यां गन्धवती मत्स्योदरी।।
जामदग्न्यस्तु रामः स्याद् भार्गवो रेणुकासुतः ।। ५१२ ॥ जमदग्नेरपत्यं जामदग्न्यः , गर्गादित्वाद् यञ् ॥१॥रमते रामः, परशुरामोऽपि ॥२॥ भृगोरपत्यं भार्गवः, "ऋषिवृष्ण्य-" ॥६।१।६१॥ इत्यण् ॥३॥ रेणुका याः सुतो रेणुकासुतः, रेणुकेयोऽपि ॥ ४ ॥ ५१२ ॥
नारदस्तु देवब्रह्मा पिशुनः कलिकारकः । .