________________
३ मत्यकाण्डः ।
प्रकणाप्यन्तेऽनेन परलोकं प्रायः । संन्यसनं संन्यासः, सर्वत्यागेन मरणाध्यवसायः सोऽस्त्यत्र संन्यासि, संन्यासयुक्तं तच्च तदनशनं च संन्यास्यनशनं तत्र ॥ १ ॥
नियमः पुण्यकं व्रतम् । नियम्यतेऽन्नाद्यत्र नियमः ॥ १॥ पुण्यमेव पुण्यकम् ॥ २ ॥ वियते उपवासाद्यत्र व्रतं पुंक्लीबलिङ्गः, “ पृषिरजि-" ( उणा-२०८) इति किदतः ॥३॥
शेषश्चात्र-अथ स्यानियमे तपः ॥ चरित्रं चरिताचारौ चारित्रचरणे अपि ॥ ५०७ ॥
वृत्तं शीलं च
चर्यते चरित्रं "लूधूसूखनि-" ॥ ५।२।८७ ॥ इति इत्रः ॥ १॥ चर्यते स्म चरितम् ॥२॥ आचरणमाचारः ॥३॥ चरित्रमेव चारित्रं प्रज्ञादित्वादण् ॥४॥ चर्यते चरणम् ॥ ५ ॥ ५०७ ॥ वर्त्तनं वृत्तम् ॥ ६ ॥ शेते सुखमनेन शीलं पुंक्लीबलिङ्गः, "शुकशी-" ॥(उणा-४६३)॥ इति किद् लः, शील्यते तदिति वा ॥७॥
सर्वैनोध्वंसि जप्येऽघमर्षणम् ।
सर्वैनसामपध्वंसिनि जप्ये, अघं मृष्यते शोध्यतेऽनेनाऽघमर्षणम् , अदैवत्यो मन्त्रः, तज्जपो वा, त्रिरात्रोपवासादिस्तूपचाराद् , वाच्यलिङ्गोऽयम् ॥ १॥
समास्तु पादग्रहणाभिवादनोपसंग्रहाः ॥ ५०८ ॥ पादयोरन्तर्ग्रहणं पादग्रहणम् ॥१॥ अभिवाद्यते आशिषं कार्यतेऽनेन अभिवादनम् ॥ २ ॥ उपसंग्रहणमुपसंग्रहः, यन्मनु:
व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । वामेन वामः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ ३ ॥ ५०८ ॥
उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । . . उपवीयते प्राक्रियते स्म उपवीतं पुंक्लीबलिङ्गः ॥ १ ॥ यज्ञसूत्रं यज्ञोपवीतम् , ब्रह्मसूत्रं पवित्रमिति चैकोऽर्थः तच्चेहानुवाद्यम् ॥ २ ॥
प्राचीनाऽऽवीतमन्यस्मिन् प्रागेव प्राचीनम् , आवीयते स्म आवीतम् अन्यस्मिन् , वामे करे प्रोद्धृते ॥१॥
निवीतं कण्ठलम्बितम् ॥ ५०९ ॥ नियतं वायते स्म निवीतम् ॥ १॥ कण्ठे ऋजु लम्ब्यते स्म कण्ठलम्बितम् ।