SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३३६ अभिधानचिन्तामणौ दैवतं त्वङ्गुलीमुखे ॥ ५०४ ॥ अङ्गुलीनां मुखेऽप्रभागे देवतानामिदं दैवतं तीर्थम् ॥ १ ॥ यद् याज्ञवल्क्यः"कनिष्ठातर्जन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥ ५०४ ॥ " शेषश्चात्र - करमध्ये सौम्यं तीर्थं ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्यपि । ब्रह्मणो ज्ञानस्य भाव ब्रह्मत्वं ॥ १ ॥ ब्रह्मणो भवनं ब्रह्मभूयं ब्रह्मणैकस्वम्मोक्ष इत्यर्थः, “हत्याभूयं भावे " || ५|११३६ ॥ इति क्यपि साधुः ॥ २ ॥ सह युक् योगोऽस्य सयुक् तस्य भावः सायुज्यम्, ब्रह्मणा सायुज्यं ब्रह्मसायुज्यम् ॥३॥ देवभूयादिकं तद्वत् तद्वदिति देवत्वं देवसायुज्यं च, आदिशब्दात् मूर्खभूयादि ॥ १ ॥ २ ॥ अथोपाकरणं श्रुतेः || ५०५ ॥ संस्कारपूर्वग्रहणं स्यात् उपाक्क्रियतेऽनेनोपाकरणं वेदपाठारम्भे विशिष्ट विधिः ॥ १ ॥ " रोहिण्यां छन्दांस्युपकुर्यात् " इति हि श्रुतिः ॥ २ ॥ ५०५ ॥ स्वाध्यायः पुनर्जपः । स्वस्य वेदस्याध्ययनं स्वाध्यायः ॥ १॥ जपनं जपः " व्यधजप-" || ५|३|४७॥ इत्यल् ॥ २ ॥ औपवस्त्रं तूपवासः उपवस्ता प्राप्तोऽस्य औपवस्त्रं " ऋत्वादिभ्यः " || ६ |४|१२५ ॥ इत्यण् । ‘वसूच् स्तम्भे' इत्यस्मात् क्ते उपवस्तः, तस्येदमौपवस्तमित्येके, उपवस्त्रमित्यन्ये, उपवस्तुरिदमिति अन्नाद्यपि, यत् स्मृतिः - 'माषान् मधुमसूरांश्च वर्जयेदौपवस्त्र के ' ॥ १ ॥ उपवसनमुपवास: पुंक्लीबलिङ्गः ॥ २ ॥ कृच्छ्रं सान्तपनादिकम् ॥ ५०६ ॥ कृन्तति पापं कृच्छ्रं नाम तपः, पुंक्लीवलिङ्गः ॥ १ ॥ सन्तपने भवं सान्तपनं ॥ २ ॥ यत् स्मृतिः - व्यहं सायं त्र्यहं प्रातः त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात् कृच्छ्रं सान्तपनं स्मृतम् ॥ १ ॥ , आदिग्रहणात् चान्द्रायणादि ॥ ५०६ ॥ प्रायः संन्यास्यनशने
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy