SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३३४ अभिधानचिन्तामणौ इष्टापूर्त तदुभयं तत् पूर्त्तमिष्टं च उभयमिष्टापूर्त राजदन्तादित्वात् साधुः ॥ १ ॥ बर्हिर्मुष्टिस्तु विष्टरः । बर्हिषां दर्भाणां मुष्टिर्बर्हिमुष्टिः, विस्तीर्यते विष्टरः पुंक्लबिलिङ्गः, "वेः स्वः" ॥ २।३।२३ ॥ इति षत्वं ॥ १ ॥ ___ अमिहोत्र्यमिचित् चाऽऽहितामो अग्निहोत्रमस्यास्त्यऽग्निहोत्री ॥ १ ॥ अग्निं चितवानग्निचित् “ अग्नेश्चः" ॥५।१।१६४॥ इति विप् ॥ आहितोऽग्निरनेनाऽऽहिताग्निस्तत्र, अग्न्याहितोऽपि॥२॥ अथानिरक्षणम् ॥ ४९९ ।। अग्न्याधानमग्निहोत्रं अग्नेः रक्षणमग्निरक्षणम् ॥१॥४९९।। अग्निराधीयतेऽस्मिन् अग्न्याधानम्॥२॥ अग्निहूयतेऽत्रेति अग्निहोत्रं ॥ ३ ॥ दर्वी तु घृतलेखनी। दृणाति हव्यं दर्विः, "दृपृवृभ्यो विः' ॥ ( उणा-७०४ ) ॥ ड्यां दीं ॥१॥ घृतं लिख्यतेऽनया घृतलेखनी ॥ २ ॥ होमानिस्तु महाज्वालो महावीरः प्रवर्गवत् ॥ ५०० ॥ होमार्थमग्निहोमाग्निः ॥ १ ॥ महत्यो ज्वाला अस्य महाज्वालः ॥ २ ॥ चारयते वीरोऽग्निः, महांश्चासौ वीरश्च महावीरः ॥ ३ ॥ प्रवृज्यते पापमनेन प्रवर्गः ॥ ४ ॥ ॥ ५०० ॥ होमधूमस्तु निगणः होमे धूमो होमधूमः ॥१॥ नितरां गण्यते निगणः, “युवर्ण- ॥ ५॥३॥२८॥ इत्यल् ॥ २॥ होमभस्म तु वैष्टुतम् । विशेषेण स्तूयते स्म विष्टुतोऽग्निः, तस्येदं वैष्टुतम् ॥ १ ॥ उपस्पर्शस्त्वाचमनं उपस्पृश्यतेऽद्भिः खान्यस्मिन्नुपस्पर्शः, यन्मनु: उपस्पृश्य द्विजो जित्यमन्नमद्यात् समाहितः । भुक्त्वा चोपस्पृशेत् सम्यगद्भिः खानि च संस्पृशेत् ॥ ३ ॥ आचम्यतेऽम्भोऽत्र आचमनं ॥ २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy