SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३ मयंकाण्डः ।। ३३३ आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकः ॥ ४९६ ॥ पृषद्भिर्दधिबिन्दुभिः सहितमाज्यं पृषदाज्यम् , दध्याज्यमित्यपि ॥१॥ पृषद्भिरङ्कयते पृषातकः, पृषोदरादित्वात् ॥ २ ।। ४९६ ।। दना तु मधुसंपृक्तं मधुपर्क महोदयः । मधुनः पर्कः संपर्को मधुपर्कम् ॥ १॥ महानुदयोऽस्मात् महोदयः ॥ २ ॥ हवित्री तु होमकुण्डं हूयतेऽस्यां हवित्री, “बन्धिवहि." ॥ ( उणा-४५९ ) ॥ इतीत्रः ॥१॥ होमाय कुण्डं होमकुण्डम् ॥ २ ॥ हव्यपाकः पुनश्वरुः ॥ ४९७ ।। हव्यस्य पाको हव्यपाकः ॥१॥ चर्यते भक्ष्यते चरुः पक्कं होतव्यम् , यद्वा हव्यस्य पाकोऽत्र हव्यपाकः स्थाली, चरन्त्यस्माद . देवपितृभूतानीति चरुः पुंलिङ्गः, "मिवहि-" ॥ ( उणा-७२६ ) ॥ इत्युः ॥ २ ॥ ४९७ ॥ अमृतं यज्ञशेष स्यात् न म्रियतेऽनेन न नश्यत्यमृतम् ॥ १ ॥ यज्ञस्य शेषो यज्ञशेषस्तत्र ॥ १ ॥ विघसो भुक्तशेषके। विशिष्टमदनं विघसः ॥ १ ॥ भुक्तस्य शेषो भुक्तशेषस्तत्र ॥ २ ॥ यन्मनुः-विघसाशी भवेद् नित्यं नित्यं चामृतभोजनः । विघसो भुक्तशेषः स्याद यज्ञशिष्टमथाऽमृतम् ॥ यज्ञान्तोऽवभृथः यज्ञस्य अन्तः समापनं यज्ञान्तः ॥ १॥ अवभ्रियते पूर्यतेऽनेन अवभृथः, “अवभृनिक्रसमिणभ्यः" ॥ ( उणा-२२९ ) ॥ इति कित् थः ॥ २ ॥ पूर्त वाप्यादि ... पूर्यते पूर्त पुंलाबलिङ्गः। आह च-वापीकूपतडागानि देवतायतनानि च। अन्नप्रदानमारामाः पूर्तमार्याः प्रचक्षते ॥ १ ॥ इष्टं मखक्रिया ॥ ४९८ ॥ इज्यते इष्टम् ॥ १ ॥ मखस्य कर्म मखक्रिया यागादि । यदाह-एकाग्निकर्म हवनं त्रेतायां यच्च हूयते।। अन्तर्वेद्यां यद्दानमिष्टं तदभिधीयते ॥ ४९८ ।।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy