________________
३३२
अभिधानचिन्तामणौ- ..
योऽभिमन्व्य निहन्येत स स्यात् पशुरुपाकृतः ॥ ४९३ ॥ उप आमन्य क्रियते हन्यते स्म उपाकृतः ॥ १ ॥ ४९३ ॥
परम्पराकं शसनं प्रोक्षणं च मखे वधः । परम्परामकति परम्पराकम् ॥ १॥ शस्यते शसनम् , शमनमित्यन्ये ॥२॥ प्रोक्ष्यते प्रोक्षणं लक्षणया वधः, प्रोक्ष्य हि यज्ञे पशुहन्यते ॥ ३ ॥
हिंसार्थ कर्माभिचारः स्यात् विपक्षादीनां हिंसानिमित्तं कर्म उच्चाटनमारणादि, अभिभवितुं चरणमभिचारः ॥ १ ॥
यज्ञार्ह तु यज्ञियम् ॥ ४९४ ॥ . यज्ञमर्हति यज्ञियम् , “ यज्ञादियः” ॥ ६।४।१७९ ॥ १ ॥ ४९४ ।।
हविः सान्नाय्यम् हूयते हविः क्लीबलिङ्गः ।। १ ॥ संनीयते सांनाय्यम् , “धाय्यापाय्य" ।। ५।१।२४ ॥ इति घ्यणि निपात्यते ॥ २ ॥
आमिक्षा शृतोष्णक्षीरगं दधि । ।
क्षीरशरः पयस्या च आमृद्नाति चित्तम् , आमीयते क्षिप्यते दध्यत्रेति वा आमिक्षा "लाक्षाद्राक्षा-" ॥ ( उणा-५९७ ) ॥ इति निपात्यते, शृतं पक्कमुष्णं तप्तं च तद्गतं दधि ॥ १ ॥ क्षीरस्य शरो मण्ड इव क्षीरशरः ।। २ ॥ पयसो विकारः पयस्या “पयोद्रोर्यः " ॥ ६॥२॥३५ ॥ इति यः ॥ ३ ॥
तन्मस्तुनि तु वाजिनम् ॥ ४९५ ॥ तस्या आमिक्षाया मस्तुनि मण्डे वजति वाजिनम् , "विपिनाजिना-" (उणा२८४ ) ॥ इति इने निपात्यते ॥ १ ॥ ४९५ ॥
हव्यं सुरेभ्यो दातव्यं हूयते हव्यम् , अग्निमुखेन सुरेभ्यो दातव्यमोदनम् ।। १ ।।
पितृभ्यः कव्यमोदनम्। ब्राह्मणमुखेन पितृभ्यो दातव्यमोदनम् , कूयते शब्दायते पितृभिः कव्यम्॥१॥ उभयमुभयोति श्रुतिज्ञाः।