SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३३० अभिधानचिन्तामणौ- ... दिवृतेर्वा” ॥ ( उणा- ६१० ) ॥ इति इः, ड्यां वेदी ॥ २ ॥ स्थण्डिलं चत्वरं चान्या अन्या यागार्थमसंस्कृता भूमिः 'स्थल स्थाने' स्थलन्ति तिष्ठन्त्यत्र स्थण्डिलं, "स्थाण्डिलकपिल-" ॥ ( उणा- ४८४ ) ॥ इतीले निपात्यते ॥ १॥ चत्यते चत्वरं “कृगृश-" ॥ ( उणा- ४४१ ) ॥ इति वरट् ॥ २ ॥ यूपः स्याद् यज्ञकीलकः ॥ ४८८ ॥ यूयते पशुरनेन यूपः, “युसुकु." ॥ ( उणा-२९७ ) ॥ इति प ऊत्वं च पुंलिङ्गोऽयम् , वैजयन्ती तु- "यूपोऽस्त्री संस्कृतस्तम्भः” इति क्लीबेऽप्याह। यज्ञे पशुविशसनाय कीलको यज्ञकीलकः ॥ १॥ ४८८ ॥ ___चषालो यूपकटके तक्ष्णा घटितो यूपाग्रे कटकाकृतिः, चष्यते उत्कीर्यते चषालः पुंक्तीवलिङ्गः, "ऋकृमृ-" ॥ ( उणा- ४७५ ) ॥ इत्यालः ॥१॥ यूपकर्णो घृतावनौ। यूपस्य कर्णो यूपकर्णः । घृतस्य अवनिनिषेकस्थानं घृतावनिस्तत्र ॥१॥ यूपाग्रभागे स्यात् तम तरन्त्यनेन यूपं तर्म, “मन्” ॥ ( उणा- ९११ ) ॥ इति मन् क्लीबोऽयम् , वाचस्पतिस्तु- “यूपाग्रं तर्म न स्त्रियाम्” इति पुंस्यप्याह ॥ १ ॥ अरणिनिमन्थदारुणि ॥ ४८९ ॥ इयर्ति वह्निरस्मिन् अरणिः पुंस्त्रीलिङ्गः, "ऋहसू-" ॥ (उणा- ६३८) ॥ इत्यणिः, अग्नेर्निर्मथनाय दारु काष्ठं तत्र ॥ १ ॥ ४८९ ॥ स्युर्दक्षिणाऽऽहवनीयगार्हपत्यास्त्रयोऽमयः । दक्षिणे स्थाप्यत्वाद् दक्षिणः ॥ १॥ आहोतव्य आहवनीयः ॥ १ ॥ गृहपतिना संप्रयुक्तो गार्हपत्यः, “हृद्यपद्य-" ॥ ७॥१।११ ॥ इति ये निपात्यते ॥१॥ इदममित्रयं त्रेता इदमुक्तम् , त्रीन् इता प्राप्ता त्रेता पृषोदरादित्वाद् एत्वं ॥१॥ प्रणीतः संस्कृतोऽनलः ॥ ४९० ॥ मन्त्रादिना संस्कृतोऽनलः । प्रणीयते स्म प्रणीतः ॥ १॥४९० ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy