SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३ मर्यकाण्डः । ___३२७ कुण्डिका तु कमण्डलुः ॥ ४८०॥ कुण्डते कुण्डी "भाजगोण-" ॥ २॥४॥३० ॥ इति ङी, के कुण्डिका ॥ १॥ कं पानीयमनित्यत्र कमण्डलुः पुंक्लीबलिङ्गः, “गूहलुगुग्गलुकमण्डलवः” ॥ (उणा८२४ ) ॥ इति साधुः, कं जलं अण्डे मध्ये लाति वा ॥ २ ॥ ४८० ॥ श्रोत्रियश्छान्दसः छन्दोऽधीते श्रोत्रियः, “छन्दोऽधीते श्रोत्रश्च वा" ॥११७३ ॥ इतीयः श्रोत्रादेशश्च, पक्षे “ तद् वेत्त्य-" ॥ ६।२।११७ ॥ इत्यणि छान्दसः ॥ १॥२॥ यष्टा त्वादेष्टा स्याद् मखे व्रती । याजको यजमानश्च यजते यष्टा ॥ १ ॥ आदिशति खाम्येन आदेष्टा, मखे यज्ञे व्रती सनियमः ॥२॥ यजात याजकः ॥३॥ यजते यजमानः “पूट्यजः शानः"॥५।२।२३॥४॥ सोमयाजी तु दीक्षितः ॥ ४८१ ॥ सोमेन यजति सोमयाजी ॥ १ ॥ दीक्षा संजाताऽस्य दीक्षितः ॥२॥४८१॥ इज्याशीलो यायजूकः इज्या यजनं शीलमस्य इज्याशीलः ॥ १॥ मृशं यजनशीलो यायजूकः, "यजिजपि-" ॥ ५।२।४७ ॥ इति यङन्तात् यजेरूकः ॥ २ ॥ यज्वा स्यादासुतीबलः । इष्टवान् यज्वा, "सुयजोवनिप्" ॥५।१।१७२॥१॥ आसुतिः सोमसंधानमस्त्यऽस्य आसुतीवलः कृष्यादित्वाद् बलच् , “बलच्यपित्रादेः" ॥३।२।८२॥ इति दीर्घः १ ॥२॥ . सोमपः सोमपीथी स्यात् सोमं पिबति सोमपः ॥१॥ पानं पीथीः, “ नीनूर-" ॥ (उणा-२२७) । इति कित् थः, सोमपस्य पीथोऽस्त्यस्य सोमपीथी ॥२॥ स्थपतिंर्गी:पतीष्टिकृत् ॥ ४८२ ॥ गीपवृहस्पतेः इष्टिं यज्ञं करोतीति गीःपतीष्टिकृत् , बृहस्पतिसवेन हेतुना स्थापयतीति स्थपतिः ॥ १॥२॥४८२ ॥ ___ सर्ववेदास्तु सर्वस्वदक्षिणं यज्ञमिष्टवान् । . सर्व विदन्यस्मात् सर्ववेदाः, “अस्” ॥(उणा-९५२)॥ इत्यस् ॥१॥ सर्वस्वं दक्षिणाऽत्र सर्वस्वदक्षिणस्तमिष्टवान् ॥ २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy