________________
३ मर्त्यकाण्डः ।
३२५
वा ॥४॥ विविधं प्राति पूरयति विप्रः, विशेषेण पातीति वा “खुरक्षुर-" ॥(उणा३९६)॥ इति रे निपात्यते ॥५॥ द्यग्राभ्यां परे जातिजन्मजाः, “मातुरग्रे विजननं द्वितीयं मौजिबन्धनम्” इति स्मृतेः, द्वे जाती जन्मनी वाऽस्य द्विजातिः॥६॥ द्विजन्मा ॥७॥ द्विर्जातो द्विजः ॥८॥ अग्रे आदौ, अग्राद् मुखाद्वा जातिर्जन्म चाऽस्य अग्रजातिः ॥ ९ ॥ अग्रजन्मा ॥ १० ॥ अग्रे अग्राद् वा जातोऽग्रजः ॥११॥ वर्णानां ज्येष्ठो वर्णज्येष्ठः ॥१२॥ सूत्रं यज्ञोपवीतं कण्ठेऽस्य सूत्रकण्ठः॥१३॥षड्-अध्ययनम् , अध्यापनम् , यजनम् , याजनम्, दानम् ,प्रतिग्रहश्चेति काण्यस्य षट्कर्मा॥१४॥ब्रह्मणो मुखात् सम्भवति मुखसम्भवः,यच्छ्रतिः-"ब्राह्मणोऽस्य मुखमासीत् इति॥१५॥४७६॥ वेदा गर्भेऽस्य वेदगर्भः ॥१६॥ शमीगर्भोऽग्निः, स इव घस्मरत्वात् शमीगर्भः ॥१७॥ सावित्री देवताऽस्य सावित्रः, सावित्र्यनुवचनं विना मौजीबन्धनाऽभावात् ,यन्मनु:
"तत्र यद् ब्रह्मजन्माऽस्य मौजीबन्धनचिह्नितम् ।
तत्राऽस्य माता सावित्री पिता त्वाचार्य उच्यते ॥” इति ॥ १८ ॥ मित्रो देवताऽस्य मैत्रः ॥ १९ ॥ एतीत्येतसः " इणः " ॥ (उणा-५८१) ॥ इति तसः ॥ २० ॥
वटुः पुनर्माणवकः वटति वेष्टयति मौजी वटुः, “भृमृतृ-"॥(उणा-७१६)॥ इत्युः ॥१॥ मनोरपत्यं कुत्सितं मूढं माणवः, “माणवः कुत्सायाम् ॥ ६।१।९५ ॥ इत्यणि साधुः, मणति शब्दायते इति वा “मणिवर्णित्" ॥ (उणा-५१६) ॥ इत्यवः, के माणवकः ॥२॥
भिक्षा स्याद् ग्रासमात्रकम् ॥ ४७७ ॥ भिक्ष्यते भिक्षा, ग्रास इव ग्रासमात्रम् , यदाहुः
"ग्रासप्रमाणं भिक्षा स्यादग्रग्रासचतुष्टयम् ।
अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः" ॥ इति ॥ १॥ ४७७ ॥
उपनायस्तूपनयो वटूकरणमानयः । उपनायमुपनायो मौजीबन्धनम् , यन्मनु:-"गर्भाष्टमेऽब्दे कुर्वांत ब्राह्मणस्यो.फ्नायनम् ॥ १॥ उपनयनमुपनयः ॥२॥ अवटुर्वटुः क्रियतेऽनेन वटूकरणम् ॥३॥ आनयनमानयः ॥ ४ ॥
अग्नीन्धनं त्वग्निकार्यमानीध्रा चामिकारिका ॥ ४७८ ।।
अग्निरिध्यतेऽस्मिन् अग्नीन्धनम् ॥ १॥ अग्नेः कार्यमग्निकार्यम् ॥ २ ॥ अग्निमिन्धेऽग्नीध् ऋत्विविशेषः, तस्येयमाग्नीध्रा, “गृहेऽनीधो रणधश्च" ॥ ६।३।१७४ ॥ . इति रण् , प्रज्ञादित्वात् स्वार्थेऽणि आग्नीध्रीत्यपि ॥ ३ ॥ अग्नेः करणमग्निकारिका "भावे" ॥ ५।३।१२२ ॥ इति णकः ॥ ४ ॥ ४७८ ॥