SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । ३२३ वन्दते. स्तौति भयेन बन्दी, हठाकृष्टा स्त्री, बलवतो हस्ते क्षिप्तो राजपुत्रादिश्व, यदाहुः-'बन्दी स्यात् पणबन्धस्थः' इति अचि गौरादित्वात् ङीस्तत्र ॥१॥ गृह्यते ग्रहः, के ग्रहकः ॥ २ ॥ प्रोपशब्दाभ्यां परो ग्रहः प्रग्रहः, उपग्रहः ॥३॥४॥४७०॥ चातुर्वर्ण्य द्विजक्षत्रवैश्यशूद्रा नृणां भिदः । ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रश्चेति वक्ष्यमाणा मनुष्याणां भिदो जातिविशेषाः, वर्ण्यन्ते इति वर्णाः, चत्वारो वर्णाश्चातुर्वर्ण्य भेषजादित्वात् खार्थे व्यण् ॥ १॥ ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ ४७१ ॥ चत्वार आश्रमाः ब्रह्मचर्यादयोऽर्था द्विजातीनां वक्ष्यमाणाश्चत्वारः, आश्राम्यन्ति तपस्यन्त्येष्वित्याश्रमाः, तात्स्थ्यात् पुमांसः पुंक्कीबलिङ्गः ॥ १ ॥ ४७१ ॥ __तत्र वर्णी स्याद् ब्रह्मचारिण। तेष्वाश्रमेषु आद्यो वर्णशब्दो ब्रह्मचर्यपयार्यः, वर्णोऽस्ति अस्य वर्णी "वर्णाद् ब्रह्मचारिणि" ॥ ७ । २ । ६९ ॥ इतीन् , ब्रह्म वेदाः, ब्रह्म तपः, ब्रह्म ज्ञानं च शाश्वतं तच्चरत्यर्जयत्यवश्यं ब्रह्मचारी तत्र ॥१॥ ज्येष्ठाश्रमी गृहमेधी गृहस्थः स्नातको गृही ॥ ४७२ ॥ ज्येष्टश्चासौ आश्रमी च ज्येष्ठाश्रमी, यन्मनुः यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् । गृहस्थैरेव धार्यन्ते तस्माद् ज्येष्ठाश्रमो गृही ॥ १॥ गृहेण मधते गृहमेधी ॥ २ ॥ गृहे तिष्ठति गृहस्थः ॥ ३ ॥ वेदं समाप्य स्नातः स्नातकः " स्नाताद्वेदसमाप्तौ” ॥ ७ । ३ । २२ ॥ इति कः ॥ ४ ॥ गृहमस्यास्ति गृही ॥ ५ ॥ ४७२ ॥ वैखानसो वानप्रस्थः • विशेषेण खनति कन्दफलमूलानि वैखानसः, “फनस-" ॥ (उणा-५७३)॥ इत्यसे निपात्यते ॥ १८ प्रतिष्ठन्तेऽत्र प्रस्थः, वनस्य प्रस्थे भवो वानप्रस्थः ॥२॥ भिक्षुः सांन्यासिको यतिः । कर्मन्दी रक्तवसनः परिव्राजकतापसौ ॥ ४७३ ॥ पाराशरी पारिकाङ्क्षी मस्करी पारिरक्षकः । भिक्षणशीलो भिक्षुः ॥१॥ कर्मणां संन्यासः प्रयोजनमस्य सांन्यासिकः ॥२॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy