SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ३२२ अभिधानचिन्तामणौ- . . दाम्यति डमरः लुण्ट्यादिः अशस्तकलह इत्येके “दर्णिद्वा दश्च ड:-" (उणा- .. ४०२ ) इत्यरः तत्र ॥ १ ॥ डयन्तेऽस्माद् डिम्बः पुंक्लीबलिङ्गः, डीनी बध्नाति डिम्बः ॥ २॥ विप्लवनं विप्लवः ॥ ३ ॥ ४६७ ॥ शेषश्चात्र स्याच्छृगाली तु विप्लवे । वैरनिर्यातनं वैरशुद्धिरैप्रतिक्रिया । 'यतण निकारोपस्कारयोः' निर्यात्यते शोध्यते निर्यातनं वैरस्य निर्यातनं वैरनिर्यातनम् ।।१।। वैरस्य शोधनं वैरशुद्धिः ॥२॥ वैरस्य प्रतिकारो वैरप्रतिक्रिया ॥३॥ बलात्कारस्तु प्रसभं हठः, 'बलादित्यव्ययं हठार्थे' बलात् करणं बलात्कारः ॥ १ ॥ प्रगता सभा अत्र प्रसभं, सभया युक्तायुक्तविचारो लक्ष्यते क्लीबलिङ्गोऽयम् , वैजयन्ती तु- “प्रसभोऽस्त्री बलात्कारः" इति पुंस्यप्याह ।। २ ।। हठति हठः ।। ३ ।। अथ स्खलितं छलम् ॥ ४६८॥ . स्खलनं मार्गाचचलनं स्खलितम् ॥ १ ॥ छयति छलम् ॥ २ ॥ परापर्यऽभितो भूतो जितो भनः पराजितः । परादिशब्देभ्यः परो भूतः पराभूतः॥१॥ परिभूतः॥२॥ अभिभूतः।।३॥ जीयते स्म जितः ॥४॥ भज्यते स्म भन्नः ॥ ५ ॥ पराजीयते स्म पराजितः ।। ६ ।। पलायितस्तु नष्टः स्याद् गृहीतदिक् तिरोहितः ॥ ४६९ ॥ परावृत्य अयते पलायितः, “उपसर्गस्यायौ” ॥ । ३ । १०० ॥ इति रस्य लत्वम् ।। १ ।। नश्यति स्म नष्टः ।। २ ॥ गृहीता दिग् येन गृहीतदिक् ॥ ३ ॥ तिरोधत्ते स्म तिरोहितः ॥ ४ ॥ ४६९ ॥ जिताहवो जितकाशी जित आहवोऽनेन जिताहवः ॥ १ ॥ जितेन काशते जितकाशी ॥ २ ॥ प्रस्कन्नपतितौ समौ । प्रस्कन्दते स्म प्रस्कन्नः ॥ १ ॥ पतति स्म पतितः ॥ २ ॥ चारः कारा गुप्तौ चरन्त्यति चारः, के चारकोऽपि ॥ १॥ क्रियते कीर्यते वाऽस्यां कारा भिदादित्वादङि साधुः ॥ २ ॥ गुप्यतेऽस्यां गुप्तिर्बन्धनागारं तत्र ॥ ३ ॥ बन्द्यां ग्रहकः प्रोपतो ग्रहः ॥ ४७० ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy