SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३ मत्यकाण्डः ।। ३२१ प्रपतनं प्रपातः छलादाक्रमणमित्यर्थः ॥ १॥ अभ्यवस्कन्दनमभ्यवस्कन्दः, अवस्कन्दोऽपि ॥२॥ धावन्तोऽटन्त्यस्यां धाटिः पृषोदरादित्वात् , ड्यां धाटी ॥३॥ अभ्यासाद्यतेऽभ्यासादनम् ॥ ४ ॥ ४६४ ॥ तद् रात्रौ सौप्तिकं तदभ्यासादनं निशि सुप्तेषु भवं सौप्तिकम् , अध्यात्मादित्वादिकण् ॥ १ ॥ वीराशंसनं त्वाजिभीष्मभूः । वीरा आशंस्यन्तेऽत्र वीराशंसनम् ॥ १ ॥ आजेः सङ्ग्रामस्य भीष्माऽतिघोरा भूमिः "वाराशंसनी' इत्यमरः ॥ नियुद्धभूरक्षवाटः, अक्षो मल्लानां युद्धस्य व्यवहारस्तस्य वाटोऽक्षवाटः ॥ १ ॥ ___ मोहो मूर्छा च कश्मलम् ॥ ४६५ ।। मोहनं मोहः प्रहारः ॥ १॥ मूर्छनं मूर्छा ॥ २ ॥ 'कश शब्दे' कशति वैचित्र्यादनेन कइमलं "रुचिकुटि-'' ( उणा- ५०२ ) इति मलः ॥ ३ ॥ ४६५ ॥ वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् । वीराणां मद्यपानं वीरपाणं “पानस्य भावकरणे" ॥ २ । ३ । ६९ ॥ इति णत्वम् ॥ १॥ .. पलायनमपयानं संदावद्रवविद्रवाः ॥ ४६६ ॥ अपक्रमः समुत्प्रेभ्यो द्रावः पलायते पलायनम् ॥ १ ॥ अपमृत्य यायतेऽपयानम् ॥२॥ संदवनं संदावः, "युदुद्रोः” ॥ ५ । ३ । ५९ ॥ इति घञ् ॥ ३ ॥ द्रवणं द्रवः ॥ ४ ॥ विद्रवणं विद्रवः ॥५॥४६६॥ अपावृत्य क्रमणमपक्रमः ॥६॥ समुत्प्रेभ्यः परो द्रावशब्दः, संद्रवणं संद्रावः "युदुद्रोः” ॥ ५।३।५९ ॥ इति घञ् ॥७॥ “यपूद्रो-" ॥५।३।५४॥ इति घनि उद्दावः ॥ ८ ॥ “प्रात्स्नुद्रुस्तोः" ॥ ५ । ३ । ६७ ॥ इति घनि प्रद्रावः, नशनमपि ॥ ९ ॥ अथ विजयो जयः । विजयनं विजयः ॥ १ ॥ जीयते जयः ॥ २ ॥ ___ पराजयो रणे भङ्गः पराजयनं पराजयः ॥ १॥ डमरे डिम्बविप्लवौ ॥ ४६७ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy