________________
अभिधानचिन्तामणौ
सुकुमाराः मृदुमधुरलालतगतयः शृंगाराभिजातरूपविक्रिया: कुमारवच्चोद्धतवेषभाषाभरणप्रहरणावरणयानवाहनाः । कुमारवच्चोल्वणरागाः क्रीडनपराश्चेत्यतः कुमाराइत्युच्यन्ते ॥ ४ ॥
अथ व्यन्तरानाह
३२
स्युः पिशाचा भूता यक्षा राक्षसाः किन्नरा अपि । किंपुरुषा महोरगा गन्धर्वा व्यन्तरा अमी ||५||
पिशाचादयोऽष्टौ विविधेषु शैलकन्दरान्तरवनविवरादिषु प्रतिवसन्तीति व्यन्तराः, वनानां समूहो वानं तस्यान्तरे भवन्तीति पृषोदरादित्वाद्वानमन्तरा इत्यपि ॥५॥ अथ ज्योतिष्कानाह—
ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः ।
द्योतन्त इति ज्योतींषि विमानानि तान्यावासतया सन्त्येषां ज्योतिष्काः । व्रीह्यादिभ्यस्तौ’॥७॥२॥५॥ इतीक्प्रत्ययः । भाखरशरीरत्वात् समस्तदिग्मण्डलद्योतनाद् ज्योतींषि देवाः ज्योतींष्येव वा ज्योतिष्काः । पञ्चेति पञ्चसंख्या: पञ्चविधा इत्यर्थः । ते तु चन्द्रा अर्का ग्रहा नक्षत्राणि तारकाश्च ॥
वैमानिकानाह—
वैमानिकाः ः पुनः कल्पभवा द्वादश ते त्वमी || ६ || सौधर्मेशान सनत्कुमारमाहेन्द्रब्रह्मलान्तकजाः ।
शुक्रसहस्रारानतप्राणतजा आरणाच्युतजाः ॥ ७ ॥ कल्पातीता नव ग्रैवेयकाः पञ्च त्वनुत्तराः ।
विमानेषु भवा वैमानिकाः। अध्यात्मादित्वादिकण् । ते च द्विविधाः कल्पभवाः कल्पातीताश्च । इन्द्रादिदशतया कल्पनात् कल्पः समुदायः सन्निवेशो विमानमात्रपृथिवीप्रस्तारस्तत्र भवाः कल्पभवा द्वादश ते पुनरमी ॥ ६ ॥ सुधर्मा देवसभां साऽस्मिन्नस्तीति सौधर्मः कल्पः “तदत्रास्ति” ॥ ६ | २|७० ॥ इत्यण् । तत्र जाताः सौधर्मजाः, ईशानस्येन्द्रस्य निवासः ऐशानः कल्पस्तत्र जाता ऐशानजाः, एवं सनत्कुमारादिकल्पेषु जाताः सनत्कुमारजाः, माहेन्द्रजाः, ब्रह्मा ब्रह्मलोकोऽभिधीयते भीमो भीमसेनइंति न्यायादिति ब्रह्मजाः, लान्तकजाः, महाशुक्रजाः, सहस्रारजाः, आनतजाः, प्राणतजाः, आरणजाः, अच्युतजाः । अत्रार्यायां तु ब्रप्रारयोः पूर्वौ द्रतौ हादिसंयोगवर्जनात् गुरू न भवतः ॥७॥ कल्पानतीताः कल्पातीताः कल्पान् अतिक्रम्यो