________________
३ मर्त्यकाण्डः ।
३१९
युद्धं तु सङ्ख्यं कलिः । संग्रामाहवसम्प्रहारसमरा जन्यं युदायोधनं संस्फोटः कलहो मृधं प्रहरणं संयद्रणो विग्रहः ॥ ४६० ॥ द्वन्द्वं समाघातसमाह्वयाभिसम्पातसंमर्दसमित्प्रघाताः। आस्कन्दनाजिप्रधनान्यनीकमभ्यागमश्च प्रविदारणं च ॥ ४६१ ॥ समुदायः समुदयो राटिः समितिसङ्गरौ । अभ्यामः सम्परायः समीकं साम्परायिकम् ॥ ४६२ ॥
आक्रन्दः संयुगं च युध्यन्तेऽत्र युद्धम् ॥ १॥ संचक्षतेऽत्र सङ्खयं पुंक्लीबलिङ्गः, "चक्षो वाचि-" ॥ ४ ॥ ४ ॥ ४ ॥ इति ख्यादेशः ॥२॥ कल्यते क्षिप्यतेऽत्र कलिः पुंलिङ्गः, "पदिपठि-” ( उणा- ६०७ ) इति इः ॥ ३ ॥ सङ्ग्रामयन्तेऽत्र सङ्ग्रामः ॥४॥ आहूयन्ते योद्धारोऽत्रेत्याहवः, “आडो युद्धे” ॥ ५। ३ । ४३ ॥ इत्यालि वस्योत्वं ॥ ५॥ सम्प्रहरन्तेऽन्योन्यं प्रत्यत्र सम्प्रहारः ॥ ६ ॥ समियूते सङ्घटन्तेऽत्र समरः पुंक्तीबः, “पुनाम्नि-" ॥ ५। ३ । १३० ॥ इति घः ॥ ७ ॥ जायते विद्वेषाजन्यं “भव्यगेय-" ॥ ५। १ । ७ ॥ इति यः, पुंक्तीबलिङ्गावेतौ ॥ ८ ॥ युध्यन्तेऽस्यां युत् क्रुधादित्वात् क्विप् ॥ ९॥ आयुध्यन्तेऽस्मिन्नायोधनम् ॥ १० ॥ संस्फुटन्त्यत्र कातरहृदयानि संस्फोटः, संस्फेट इत्यन्ये, संफेट इति भरतः ॥ ११ ॥ कल्यते क्षिप्यतेऽत्र कलहः, “कृपृकटि-"॥ (उणा-५८९) ॥ इत्यहः, कलं हीनबलं हन्तीति वा "क्वचित्” ॥ ५। १ । १७१ ॥ इति डः, कलां जहातीति वा "ठ्यापो बहुलं-" ॥ २ । ४ । ९९ ॥ इति पूर्वस्य हवः ॥ १२ ॥ 'मृधूग उन्दे मर्धते शोणितैमृधं "नाम्युपान्त्य-" ॥५। १ । ५४ ॥ इति कः ॥ १३ ॥ प्रहरन्तेऽत्र प्रहरणम् ॥ १४॥ संयतन्ते संयच्छन्ति वाऽत्र संयत् क्लीबलिङ्गः, अमरस्तु"स्त्रियां संयत्" इत्याह ॥१५॥ रणन्ति दुन्दुभयोऽत्र रणं पुंक्लीबलिङ्गः,"पुंनाम्नि-" ॥ ५।३।१३०॥ इति बाहुलकाद् घः ॥१६॥ विगृह्णन्त्यत्र विग्रहः ॥ १७ ॥ ४६० ।। द्वौ द्वौ युध्येतेऽत्र द्वन्द्वं पृषोदरादित्वात् ,वन्द्यते वीरैरिति वा "प्रहाह्वा-"॥(उणा-५१४)। इति वे निपात्यते, 'समासकलहयुग्मेषु' इति भोजः ॥ १८ ॥ सङ्गत्या नन्ति परस्परमत्र समाघातः ॥ १९॥ संपृच्छन्त्याह्वयं नामात्र समाह्वयः ॥ २० ॥ अभिसम्पतन्त्यत्र अभिसम्पातः ॥ २१ ॥ संमृद्नन्त्यत्र सम्मदः ॥ २२ ॥ संयन्ति सङ्गच्छन्तेऽत्र समित् 'क्रुत्सम्पदादि-" ॥ ५। ३ । ११४ ॥ इति क्विप् ॥ २३ ॥