________________
३१८
अभिधानचिन्तामणौ- ...
सूतो बन्दी मलङ्गपाठकः ॥ ४५८ ॥ सुनोति सूतः ॥ १॥ वन्दते स्तौति बन्दी, ग्रहादित्वाद् णिन् ॥ २ ॥ मङ्गलं पठतीति मङ्गलपाठकः ॥ ३ ॥ ४५८ ॥
. मागधो मगधः .. मगध एव मागधः प्रज्ञादित्वादण् ॥ १ ॥ 'मगधः कण्ड्वादो' मगध्यति याचते मगधः, वंशोदीरणेन यो याचते, यदाहुः- "मागधाः स्तुतिवंशजाः" इति मङ्खोऽपि ॥२॥
संशप्तका युद्धाऽनिवर्तिनः । संशपन्ति, पलायमानान् संशपथं युद्ध्यन्ते वा संशप्ताः, के संशप्तकाः ॥१॥ युद्धान्न निर्वत्तन्ते युद्धाऽनिवर्तिनः ॥ २ ॥
- नग्नः स्तुतिव्रतः
न वस्ते नग्नः, कौपीनमात्रजरद्वस्त्रपरिधानात् “ दिननग्न-" ॥ ( उणा२६८ ) ॥ इति ने निपात्यते, न विद्यन्ते नाः श्रियश्छन्दांसि वा अस्येति वा नखादित्वानात्राऽद् भावः ॥ १॥ स्तुतिरेव व्रतमस्य स्तुतिव्रतः ॥ २ ॥
तस्य ग्रन्थो भोगावली भवेत् ॥ ४५९ ॥ तस्य नग्नस्य भोगः सुखं तद्धेतुत्वाद् भोगाः स्तुतयः, तासामावली भोगा. वली ॥ १॥ ४५९ ॥
प्राणः स्थाम तरः पराक्रमबलद्युम्नानि शौयौंजसी
शुष्मं शुष्म च शक्तिरू सहसी प्राणनं प्राणः ॥ १ ॥ तिष्ठन्त्यनेन स्थाम “मन्" ॥ ( उणा-९११ ) ॥ इति मन् ॥ २ ॥ तरन्त्यनेनापदं तरः “ अस्" ॥ (उणा-९५२) ॥ इत्यस्, क्लीबलिङ्गावेतौ ॥ ३ ॥ पराक्रमन्तेऽनेन पराक्रमः ॥ ४ ॥ बलत्यनेन बलं पुंक्लीबलिङ्गः, “ वर्षादयः क्लीवे" ॥ ५। ३ । २९ ॥ इत्यल् ॥ ५॥ दिवि मीयते द्युम्नं “द्युसुनिभ्यो माङो डित्” ॥ ( उणा-२६६ ) ॥ इति नः, द्रविणमपि ॥ ६ ॥ शूरस्य भावः शौर्यम् ॥ ७ ॥ ओषत्यरीननेन ओजः क्लीबलिङ्गः, “ उषे च." ॥ ( उणा९५९ ) ॥ इत्यस् ॥ ८ ॥ शुष्यत्यनेनारिः शुष्मं “ विलिभिलि." ॥(उणा-३४०)। इति किद् मः ॥ ९ ॥ “सात्मनात्मन्-" ॥ ( उणा-९१६ ) ॥ इति मनि निपातनात् शुष्म क्लीबलिङ्गः ॥ १० ॥ शक्यतेऽस्याः परो जेतुं शक्तिः ॥ ११ ॥ ऊ. जनमूर्जः पुंस्त्रीलिङ्गः, ऊर्गपि ॥ १२॥ सहते शत्रुमनेन सहः क्लीबलिङ्गः, “अस्' ॥ ( उणा-९५२) ॥ इत्यस् ॥ १३ ॥