SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः । शूले त्रिशीर्षकम् । शूलति रुजति शूलं पुंक्लीबलिङ्गः, तत्र ॥१॥ त्रीणि शीर्षाण्यस्य त्रिशीर्षकम् ॥ २ ॥ शक्तिपट्टिसदुःस्फोटचक्राद्याः शेषश्चात्र शस्त्रजातयः ॥ ४५१ ॥ शक्नोति जेतुमनया शक्तिः ॥ १ ॥ पटत्यरातीन् पट्टिसः “पटिवीभ्याम् - " ( उणा - ५७९ ) इति टिसः, अयं तालव्य इत्यन्ये ॥ १ ॥ दुःखं स्फोटयति दुःस्फोटः ॥ १ ॥ क्रियते प्रहारोऽनेन चक्रं पुंक्लीबलिङ्गः, आदिग्रहणात् शतघ्नीमहाशिला-मुपुण्ढी-चिरिका वराहकर्णकप्रभृतयः ॥ १ ॥४५१॥ ३१५ अथ शक्तिः कासूर्महाफला ॥ अष्टतालाऽऽयता सा च पट्टिशस्तु खुरोपमः । लोहदण्डस्तीक्ष्णधारो दुस्फोटाराफलौ समौ ॥ चक्रं तु वलयप्रायमरसंचितमित्यपि । शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता ॥ अयः कण्टकसंच्छन्ना शतघ्न्येव महाशिला । मुढी स्याद् दारुमयी वृत्तायः कीलसंचिता ॥ कणयो' लोहमात्रोऽथ चिरिका तु हुलाग्रका | वराहकर्णकोऽन्वर्थः फलपत्रा के हुलम् ॥ मुनयोऽस्त्रशेखरं च खुरली तु श्रमो योग्याऽभ्यासः खुरन्ति छिन्दन्त्यस्यां खुरली, "मुरलोरल - " ॥ ( उणा - ४७४) ॥ इत्यले निपात्यते ॥१॥ श्राम्यत्यनेन श्रमः ॥ २॥ योगे चित्तैकाग्ये साध्वी योग्या " तत्र साधौ " ||७|१|१५ ॥ इति यः, योगाय शक्तेति वा “योगकर्मभ्यां - ॥६॥४॥९५॥ इति " यः ॥ ३ ॥ शस्त्राणामभ्यसनमभ्यासः ॥ ४॥ शेषश्चात्र - शराभ्यास उपासनम् ॥ तद्भूः खलूरिका । तस्य श्रमस्य साधनाय भूस्तभूः ॥ १ ॥ खड्यते लक्षं भिद्यतेऽत्र खडूरः “ ममिसि- " ॥ (उणा-४२७ ) ॥ इत्यूरः, लवे खलूरः, स्वार्थे के खलूरिका ॥ २ ॥ सर्वाभिसारः सर्वौघः सर्व्वसंनहनं समाः ॥ ४५२ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy