________________
३१४
अभिधानचिन्तामणौ
युधविशेषः, पृषोदरादित्वात् साधुस्तत्र ॥ १॥ सृज्यते सृगः, स्थादित्वात् के न्यवादित्वाद् गत्वं ॥ २ ॥
कुन्ते प्रासः कुणति कुन्तस्तत्र ॥ १ ॥ प्रास्यते प्रासः, हस्तधार्यः शल्यः ॥ २ ॥
अथ द्रुघणो घनः ॥ ४४९ ॥ मुद्गरः स्यात्
द्रुहन्यतेऽनेन द्रुघणः “त्ययोद्रोः करणे" ॥ ५ । ३ । ३८ ॥ इत्यलि घनादेशस्ततोऽराहणादिपाठात् णत्वम् , , घणतीति ग्रसते वा ॥ १ ॥ हन्यतेऽनेन घनः, "मूर्तिनिचिता-" ॥५। ३ । ३७ ॥ इत्यलि साधुः ॥ २ ॥ ४४९ ॥ मोदतेऽनेन मुद्गरः पुंस्त्रीलिङ्गः, “ मुदिगुरिभ्याम्-" ॥ ( उणा-४०३ ) ॥ इति टिदरो गोऽन्तश्च, मुदं गिरति ग्रसते वा ॥ ३ ॥
कुठारस्तु परशुः पशुपर्श्वधौ ।
परश्वधः स्वधितिश्च 'कुठिः सोत्रः' कोठति कुठारः पुंस्त्रीलिङ्गः, "तुषिकुठिभ्यां कित्-" ॥ (उणा४०८)॥ इत्यारः, कुठान् वृक्षान् इयर्तीति वा ॥१॥ परान् शृणाति परशुः " पराभ्यां शृखनिभ्यां डित्-" ॥ ( उणा-७४२ ) इत्युः ॥ २ ॥ पृणाति पशुः "प्रः शु:-" ॥ ( उणा-८२५)॥ इति शुः ॥ ३ ।। पशुकाभिर्न धीयते पर्वधः, स्थादित्वात् कः ॥ ४ ॥ परान् शृणाति परश्वधः “परात् श्रो डित्." ।। ( उणा२५५ ) ॥ इति वधः ॥ ५ ॥ खं धियति धारयति स्वधितिः “तिक्कृतौ नाम्नि-" ॥ ५। १ । ७१ ॥ इति तिक् , परश्वादयः पुंलिङ्गाः ॥ ६॥
परिघः परिघातनः ॥ ४५० ॥ परिहन्यतेऽनेन परिघः, लोहबद्धो लगुडः “परेघः-" ॥ ५॥ ३ ॥ ४० ॥ इत्यलि घादेशः, लत्वे पलिघोऽपि ॥१॥ परिघात्यतेऽनेन परिघातनः ॥२॥४५०॥
सर्वला तोमरे सर्वान् लाति सवला ॥ १॥ ताम्यत्यनेन तोमरः पुंक्लीबलिङ्गः, “जठर कर-" ॥ ( उणा-४०३)॥ इत्यरे निपात्यते, तत्र ॥ २ ॥
शल्यं शङ्को शलत्यन्तर्विशति शल्यं पुंक्लीबलिङ्गः, “ स्थाछामा." ॥ (उणा-३५७) ॥ इति यः, अन्यत्रोपचारात् शल्यम् ॥१॥ शाम्यत्यनेन शङ्कुः पुंलिङ्गः, "कैशीशमि-" ॥ ( उणा-७४९ )॥ इति कुस्तत्र ॥ २ ॥