________________
३ मर्त्यकाण्डः ।
३०९
शिञ्जिनी ज्या च मूर्वा ज्यातृणविशेषस्तस्य विकारो मौर्वी ॥ ३ ॥ जीवत्यनया जीवा ॥ ४ ॥ गुण्यतेऽभ्यस्यते गुणः ॥ ५ ॥ गोभ्यो बाणेभ्यो हिता गव्या स्त्रीक्लीबलिङ्गः, “गोः खरे यः" ॥६।१।२७॥ इति यः ॥ ६ ॥ शिते शब्दायते शिजा ॥ ७ ॥ बाणाः अस्यन्तेऽनेन बाणासनम् ॥ ८ ॥ द्रुणति हिनस्ति गुणा, द्रवत्यनया शर इति वा ॥ ९॥ शिते शिञ्जिनी ॥ १० ॥ जिनाति ज्या "क्वचित्" ॥५।१।१७१॥ इति डः ॥ ११ ॥
- गोधा तु तलं ज्याघातवारणम् ॥ ४४० ॥
गुध्यते वेष्ट्यतेऽनया गोधा, भिदादित्वादङि साधुः ॥ १॥ तलति तलं क्लीवलिङ्गः स्त्रियामपि, वैजयन्तीकारस्तु यदाह- “गोधा तला च ननरौ”। चर्मादिमयं ज्याप्रहारनिवारणम् ॥ २ ॥ ४४० ॥
स्थानान्यालीढवैशाखप्रत्यालीढानि मण्डलम् ।
समपादं च तिष्ठन्त्येभिरिति स्थानानि, जङ्घयोश्चारीनिवृत्तौ स्थितिविशेषाः । आलेढि भुवमालीढम् ॥१॥ विशाखस्य स्कन्दस्येदं वैशाखम् ।। १।। प्रतिलोममालीढं प्रत्यालीढम् ॥१॥ मण्डलाकृतित्वाद् मण्डलम् ॥ १ ॥ समौ पादावत्र समपादम् ॥ १ ॥ यद्धनुर्वेदः
अग्रतो वामपादं तु तीक्ष्णं चैवाऽनुकुश्चितम् । आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥ १॥ पादौ सविस्तरौ कायौँ समहस्तप्रमाणतः । वैशाखस्थानके वत्स ! कूटलक्ष्यस्य वेधने ॥ २ ॥ प्रत्यालीढे तु कर्तव्यः सव्यस्तीक्ष्णोऽनुकुञ्चितः । तिर्यग्वामः पुरस्तत्र दूरापाते विशिष्यते ॥ ३ ॥
समपादे समौ पादौ निष्कम्पौ च सुसङ्गतौ । • मण्डले मण्डलाकारौ बाह्यतीक्ष्णौ विशेषतः ॥ ४ ॥ एते क्लींबलिङ्गाः, वैजयन्तीकारस्तु-" तत्र वैशाखमस्त्रियाम्" इत्याह ॥
वेध्यं तु लक्षं लक्ष्यं शरव्यकम् ॥ ४४१ ॥ वेध्यते वेध्यम् ॥ १॥ लक्ष्यते लक्षं “युवर्ण-" ॥ ५। ३ । २८ ॥ इत्यल, य एञ्चातः" ॥ ५। १ । २८ ॥ इति ये लक्ष्यम् ॥ २ ॥ ३ ॥ शृणाति शरुहिस्रः, शरवे हितं शरव्यं “ तस्मै हिते” ॥ ७ ॥ १ ॥ ३५ ॥ इति यः, एते क्लीबलिङ्गा :, वैजयन्ती तु-“वेध्यं शरव्यं न नरि" इत्याह ॥ ४ ॥ ४४१ ॥
४०