SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ३०८ अभिधानचिन्तामणौ तद् चतुर्विधम् ॥ ४३७ ॥ तदायुधं पाणिमुक्तादिभेदाद् चतुर्धेति ॥ ४३७ ॥ चातुर्विध्यमेव दर्शयतिमुक्तं द्विधा पाणियन्त्रमुक्तं शक्तिशरादिकम् । अमुक्तं शस्त्रिकादि स्याद् यष्टयाद्यं तु द्वयात्मकम् ॥ ४३८ ॥ मुच्यते क्षिप्यते मुक्तं द्विप्रकारकं क्रमाद् यथा-पाणिमुक्तं शक्तिप्रभृतिकम् ॥१॥ यन्त्रमुक्तं शरादिकम् ॥ २ ॥ अमुक्तं हस्तस्थितमेव यथा शस्त्रिकादि ॥ ३ ॥ द्वयात्मकमिति मुक्तामुक्तात्मकं यथा यष्टयादि ॥ ४ ॥ ४३८ ॥ धनुश्चापोऽस्त्रमिष्वासः कोदण्डं धन्व कार्मुकम् । द्रुणाऽऽसौ धन्यतेऽयंते, धमति शब्दायते ज्याघातेन वा धनुः "रुद्यर्ति-" ॥ (उणा९९७) ॥ इत्युस् , श्लिष्टनिर्देशात् “भृमृतृ-" ॥ (उणा-७१६) ॥ इत्युप्रत्यये धनुरुकारान्तोऽपि, द्वावपि पुंक्लीबलिङ्गो “कृषिचमि-" ॥ (उणा-८२९) ॥ इत्यूप्रत्यये स्त्रीलिङ्गो धनूरपि ॥ १ ॥ चपस्य वेणोविकारश्चापः पुंक्लीबलिङ्गः ॥ २ ॥ अस्यन्ते बाणा अनेन अस्त्रम् ॥ २ ॥ इषवोऽस्यन्तेऽनेनेति इष्वासः, शरासनमपि ॥ ४ ॥ 'कदिः सौत्रः' कद्यतेऽनेन कोदण्डः “पिचण्डैरण्ड-" ॥ (उणा-१७६) ॥ इत्यण्डे निपात्यते, कोपाद् दण्डयत्यनेन वा पृषोदरादित्वात् , पुंक्लीबलिङ्गावेतौ ॥५॥ धवु गतौ' "उदितः खराद्-" ॥४।४।९८॥ इति नागमे धन्वति धन्व क्लीबलिङ्गः, “उक्षितक्ष्य-" ॥ (उणा-९००) ॥ इत्यन् , धनति वा “मन्वन्-" ॥५।१।१४७॥ इति वन् ॥ ६ ॥ कर्मणे शक्त कार्मुकं “योगकर्मभ्यां-" ॥६।४।९५॥ इत्युकञ् ॥ ७ ॥ द्रुणति हिनस्ति द्रुणं, द्रवति याति शरोऽनेन वा "द्रोर्वी' ॥ (उणा-१८४) ॥ इति किद् णः ॥ ८ ॥ अस्यन्ते बाणा अनेनाऽऽसः पुंक्लीबलिङ्गः ॥ ९ ॥ लस्तकोऽस्यान्तः अस्य धनुषोऽन्तमध्यं ग्रहणस्थानं, लसति श्लिष्यति करोऽत्र लस्तकः "कीचकपेचक-" ॥ (उणा-३३) ॥ इत्यके निपात्यते ॥ १ ॥ अग्रं त्वर्तिरटन्यपि ॥ ४३९ ।। अस्य धनुषोऽयं कोटिः अर्यतेऽनया अर्तिः इवादित्वात् क्तिः ॥१॥ अटत्यटनिः “सदिवृत्य-" ॥ (उणा-६८०)॥ इत्यनिः, ड्यामटनी ।। २ ॥ ४३९ ।। मौर्वी जीवो गुणो गव्या शिञ्जा बाणासनं द्रुणा ।
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy