SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३ मकाण्डः । परश्वधः प्रहरणमस्य पारश्वधिकः, पारश्वधः " परश्वधाद् वाऽण्” || ६ |४| ६३ ॥ इत्यण्, पक्षे कण् ॥ १ ॥ ३ ॥ ४३४ ॥ ३०७ स्युर्नैस्त्रिंशिकशाक्तीकयाष्टीकास्तत्तदायुधाः । निस्त्रिंशः प्रहरणमस्य नैस्त्रिशिक: “ प्रहरणम् || ६ |४| ६२ ॥ इतीकण् ॥ १ ॥ शक्तिर्यष्टिश्व प्रहरणमस्य शाक्तीकः, याष्ट्रीकः शक्तियष्टेष्टीकण् || ६ |४| ६४ ॥ १ ॥ १ ॥ तृणी धनुर्भृद् धानुष्कः स्यात् तूणमस्त्यस्य तूणी, निषङ्गीत्यपि ॥ ॥ धनुर्विभर्ति धनुर्भृत्, यौगिकत्वाद् धनुर्धरः, धन्वी, धनुष्मानित्यादयः ॥ २ ॥ धनुः प्रहरणमस्य धानुष्कः " प्रहरणम् ” ॥ ६।४।६२ ॥ इतीकण्, धनुषा जीवतीति वा वेतनादित्वादिकण् ॥ ३ ॥ काण्डीरस्तु काण्डवान् ॥ ४३५ ॥ काण्डानि सन्त्यस्य काण्डीरः " काण्डाण्डभाण्डादीरः " || ७|२| ३८ ॥ १ ॥ तौ काण्डवान् ॥ २ ॥ ४३५॥ कृतहस्तः कृतपुङ्खः सुप्रयुक्तशरो हि यः । कृतौ सिद्धौ हस्तावस्यं कृतहस्तः ॥ १ ॥ कृताः पुङ्खा अनेन कृतपुङ्खः ॥ २ ॥ सुष्ठु प्रयुक्तो व्यापारितः शरोऽनेन सुप्रयुक्तशरः ॥ शीघ्रवेधी लघुहस्तः शीघ्रमनवच्छेदेन वेधयति लक्ष्यं भिनत्ति शीघ्रवेधी ॥ १ ॥ लघुलघवयुक्तो हस्तोsस्य लघुहस्तः ॥ २॥ अपराद्धेषुस्तु लक्ष्यतः || ४३६ ॥ च्युतेषुः अपराद्धा अलब्धलक्षा इषवो बाणा अस्य अपराद्धेषुः, लक्ष्याच्च्युतेषुबाणः ॥ १ ॥ ४३६ ॥ दूरवेधी तु दूरापाती दूराद् वेधयति लक्ष्यं भिनत्ति दूरवेधी ॥ १ ॥ दूरादापातयति दूरापाती ॥ २ ॥ आयुधं पुनः । हेतिः प्रहरणं शस्त्रमस्त्रं आयुध्यन्तेऽनेनायुधं पुंक्लीबलिङ्गः, स्थादित्वात्कः ॥ १ ॥ हन्यते अनया हेतिः “सातिहेति-” ॥ ५।३।९४ ॥ इति तौ निपात्यते ॥ १ ॥ प्रहरन्त्यनेन प्रहरणम् ॥ ३ ॥ शस्यतेऽनेन शस्त्रं स्त्रीक्लीबलिङ्गः, “नीदाम्ब्- " || ५|२|८८ इति ऋद् ॥ ४ ॥ अस्यते अस्त्रं " त्रट् " ॥ ( उणा - ४४६ ) ॥ इति ऋट ॥ ५ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy