SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ शिरस्त्राणे तु शीर्षण्यं शिरस्कं शीर्षकं च तत् । शिरस्त्रायतेऽनेन शिरस्त्राणं तत्र ॥ १ ॥ शिरसि भवं शीर्षण्यं देहांशत्वाद् ये “शिरसः शीर्षन् ” ||३|२|१०१॥ इति शीर्षन्नादेशः, शिरसे हितमिति वा " प्राण्य ङ्गरथ - ' ॥ ७।१।३७ ॥ इति यः, शिरसस्तुल्यमिति वा शाखादित्वाद् यः " शिरसः शीर्षन् " ॥ ३।२।१०१ ॥ इति शीर्षन्नादेशः || २ || शिरसः शीर्षस्य च प्रकृतिः शिरस्कम्, शीर्षकम् खोलमपि ॥ ३ ॥ ४ ॥ नागोदमुदरत्राणं नह्यते जठरोपरि नागोदं, कुमुदादौ निपात्यते ॥ १ ॥ उदरं त्रायतेऽनेनोदरत्राणम् ॥ २ ॥ ३०६ , जङ्घात्राणं तु मत्कुणम् ॥ ४३२ ॥ जङ्घा त्रायतेऽनेन जङ्घात्राणम् ॥ १ ॥ माद्यति हृष्यत्यनेन मत्कुणं “भ्रूणतृण - " ॥ ( उणा - १८६ ) ॥ इति साधुः ॥ २ ॥ ४३२ ॥ बाहुत्राणं बाहुलं स्यात् बाहुस्त्रायतेऽनेन बाहुत्राणम् ॥ १ ॥ बाहुं लाति बाहुलम् ॥ २ ॥ जालिका त्वङ्गरक्षणी । जालप्रायाऽऽयसी स्यात् “जलण् अपवारणे” जालयति शस्त्राघातं जालिका ॥१॥ अङ्कं रक्ष्यतेऽनया अङ्गरक्षण ॥ २ ॥ जालप्राया जालसदृशी ॥ ॥ आयसी लोहमयीत्यर्थः ॥ ४ ॥ आयुधीयः शस्त्रजीविनि ॥ ४३३ ॥ काण्डपृष्ठ|युधिको च शस्त्रेण जीवति शस्त्रजीवी तत्र ॥ १ ॥ ४३३ || आयुधेन जीवत्यायुधीयः, आयुधिक: "आयुधादीयश्च" || ६ | ४|१८ ॥ इतीयः, इकश्च ॥ २ ॥ ३ ॥ काण्डानि पृष्ठेऽस्य काण्डपृष्टः ॥ ४॥ तुल्यौ प्रासिककौन्ति । प्रासः कुन्तश्च प्रहरणमस्य प्रासिकः, कौन्तिकः "प्रहरणम्" ॥६|४|६२॥ इतीक ॥ १ ॥ २ ॥ पारश्वधिकस्तु पारश्वधः परश्वधायुधः ॥ ४३४ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy