________________
३ मर्त्यकाण्डः।
आमुक्तः प्रतिमुक्तवत् ।
अपिनद्धः पिनद्धः आमुच्यते वध्यते स्माऽऽमुक्तः ॥ १ ॥ प्रतिमुच्यते स्म प्रतिमुक्तः ॥ २ ॥ अपिनाते स्म अपिनद्धः, “वाऽवाऽप्यो-" ॥ ३।२।१५६ ॥ इति प्यादेशे पिनद्धः
__ अथ सन्नद्धो व्यूढकङ्कटः ।। ४२९ ॥ - दंशितो वर्मितः सज्जः
संनह्यते स्म संनद्धः ॥ १ ॥ व्यूढो धृतः कङ्कटोऽनेन व्यूढकङ्कटः ॥२॥४२९॥ दश्यते वध्यते स्म दंशितः ॥ ३ ॥ वर्म संजातमस्य वर्मितः, कवचिताऽपि ॥ ४ ॥ सजते सज्जः, सन् जायते वा "कचित्" ॥ ५।१।१७। ॥ इति डः ॥ ५॥
सन्नाहो वर्म कङ्कटः ।
जगरः कवचं दंशस्तनुत्रं माठ्युरश्छदः ॥ ४३० ॥ संनह्यते सन्नाहः ॥१॥ वृणोत्यङ्गं वर्म क्लीबलिङ्गः, “मन्” ॥ (उणा-९११)॥ इति मन् ॥ २ ॥ कङ्कते यात्यङ्गं कङ्कटः "दिव्यवि-" ॥ (उणा-१४२)॥ इत्यटः, कङ्कटत्याच्छादयति वा ॥ ३ ॥ जायते जगरः “जठर-' ॥ (उणा४०३) ॥ इत्यरे निपात्यते, जागर्तीति वा बाहुलकाद् ह्रस्वः ॥ ४ ॥ कवते कवचं पुंक्लीबलिङ्गः, “कल्यवि-" ॥ (उणा-११४) ॥ इत्यचः, कं वञ्चतीति वा ॥ ५ ॥ दश्यते वच्यते दंशः, दशनमपि ॥ ६ ॥ तनुं त्रायते तनुत्रम् , तनुत्राणमपि ॥७॥ माठयत्यङ्गं माठिः स्त्रीलिङ्गः, “खरेभ्य इ.” ॥ (उगा-६०६) ॥ ङ्यां माठी ॥८॥ उरश्छाद्यतेऽनेनोरश्छदः “घुनाम्नि-" ॥५।३।१३०॥ इति घे "एकोपसर्गस्य-" ॥४।२।३४॥ इति हस्खः, त्वक्तमपि ॥ ९ ॥ ४३० ॥
निचोलकः स्यात् कूर्पासो वारबाणश्च कञ्चुकः । "चुलिः सौत्रः" निचुल्यते निचोलः, के निचोलकः ॥ १ ॥ कुरति कूर्पासः "कृकुरिभ्यां पासः" ॥ (उणा-५८३) ॥ इति पासः ॥ २ ॥ बाणान् वारयति वारबाणः,राजदन्तादित्वात् पूर्वनिपातः,वारमाच्छादकं वानमय्येति वा “पूर्वपदस्थात्-" ॥२।३।६४॥ इति णत्वम् ॥ ३ ॥ कञ्च्यते बध्यते कञ्चुकः पुंक्तीबलिङ्गौ ॥ ४ ॥
सारसनं त्वधिकाझं हृदि धार्य सकञ्चुकैः ।। ४३१ ॥
सारं सनोति ददाति सारसनम् ॥ १ ॥ अधिकमङ्गादधिकाङ्गं पुंक्लीवलिङ्गः, 'अधियाङ्गमित्येके, यन्मुनिः- “अधियाङ्गं सारसनम्' दुर्गस्तु- "तस्य सारसनं ज्ञेयं धियाङ्गं च निबन्धनम्” इत्याह । यत् सकञ्चुकैहृदि धार्यते ॥ २ ॥ ४३१ ॥