SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ हत्यारोहे सादियन्तृमहामात्रनिपादिनः । हस्तिनमारोहति हस्त्यारोहः, हस्तिनोऽधिकृतः प्रधानभूतस्तत्र ॥ १ ॥ सीदति सादी ॥ २ ॥ यच्छति यन्ता ॥ ३ ॥ महती मात्राऽस्य महामात्रः ॥ ४ ॥ निषीदति निषादी ॥ ५ ॥ आधोरणा हस्तिपका गजाजीवेभपालकाः || ४२६ ॥ ३०४ आधोरयन्ति हस्तिनमाधोरणाः, नन्द्यादित्वादनः ॥ १ ॥ हस्तिनं पान्ति हस्तिपाः, के हस्तिपकाः || २ || गजान् गजेभ्यो गजेषु वा आजीवन्ति गजाजीवाः ।।३।। इभं पालयति इभपालकः, एते कर्मकरप्रायाः, हस्त्यारीहादयः, इभपालकपयता एकार्था इत्यन्ये, मण्ठो देश्याम् ॥ ४ ॥ ४२६ ॥ योद्धारस्तु भटा योधाः युध्यन्ते योद्धारः ॥ १ ॥ भटन्ति धारयन्ति शस्त्राणि भटाः ॥ २ ॥ युध्यन्ते योधाः, लिहादित्वादच् ॥ ३ ॥ सेनारक्षास्तु सैनिकाः । सेनां रक्षन्ति सेनारक्षाः प्राहरिकाख्याः ॥ १ ॥ सेनां रक्षन्ति सैनिकाः “रक्षदुञ्छतोः” ॥ ६ । ४ । ३० ॥ इतीकण् ॥ २ ॥ सेनायां ये समवेतास्ते सैन्याः सैनिका अपि ॥ ४२७ ॥ सेनां समवयन्ति सैन्याः, सैनिकाः “सेनाया वा " ॥ ६ । ४ । ४८ ॥ इति यः, पक्षे इण् ॥ २ ॥ ४२७ ॥ ये सहस्रेण योद्धारस्ते साहस्राः सहस्रिणः । सहस्रं योद्धारः परे सन्त्येषां साहस्राः ज्योत्स्नादित्वादण्, शिखादित्वादिनि सहस्रिणः ॥ १ ॥ २ ॥ छायाकरः छत्रधारः छायां करोति छायाकरः " हेतुतच्छीला - " ॥ ५|१|१०३ ॥ इति टः ॥ १ ॥ छत्रं धरति छत्रधारः ॥ २ ॥ पताकी वैजयन्तिकः ॥ ४२८ ॥ पताकाऽस्त्यस्य पताकी पताकाधरः, शिखादित्वादिन् ॥ १ ॥ वैजयन्त्या चरति वैजयन्तिकः ॥ २ ॥ ४२८ ॥ परिधिस्थः परिचरः परिधौ सेनान्ते तिष्ठति परिधिस्थः ॥ १ ॥ परितः समन्ताद् चरति रक्षितुं परि चरः ॥ २ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy