________________
३०२
अभिधानचिन्तामणौ
युगन्धरं कूरं स्यात्
युगं वोढुस्कन्धकाष्ठं धारयति युगन्धरं “ धारेर्धर्च" || ५|१|११३ || इति खे साधुः ॥ १ ॥ कवते कूबरं "नीमीकु " ॥ ( उणा ४४३ ) ॥ इति वरद्, पुंक्लीबलिङ्गावेतौ ॥ २ ॥
दीर्घत्वं
च,
युगमीशान्तबन्धनम् ॥ ४२० ॥
युज्यते युगं पुंक्कबिलिङ्गः, वर्षादित्वादल् गत्वं च ईशान्ते बन्धोऽस्येशान्तबन्धनम् ॥ १ ॥ ४२० ॥
युगकीलकस्तु शम्या
युगस्य कीलको युगकीलकः ॥ १ ॥ शम्यते शम्या “शकितकि-” ॥५।१।२९॥ इति यः ॥ २ ॥
प्रासङ्गस्तु युगान्तरम् ।
प्रसज्ज्यते वोढुस्कन्धे प्रासङ्गः “ घञ्युपसर्गस्य - " || ३ |२| ८६ ॥ इति दीर्घः, द्वितीयं युगं युगान्तरम्, यत्काष्ठं वत्सानां दमनकाले स्कन्धे आसज्ज्यते, यन्मुनिः- युगं द्वितीयं प्रासङ्गः ॥ १ ॥
अनुकर्षो दधःस्थ
अधः स्थितं दारु, अनुकृष्यते अनुकर्षः ॥ १ ॥
धूर्वी यानमुखं च धूः ॥
४२१ ॥
धूर्वति हिनस्ति वोतॄन् धूवीं ॥ १ ॥ यानस्य रथादेर्मुखम यानमुखम् ॥२॥ धूर्वति धूः, यस्याग्रे वोढारो बध्यन्ते, स्त्रीलिङ्गोऽयम् ॥ ३ ॥ ४२१ ॥
रथगुप्तिस्तु वरूथः
रथस्य गोपनं रथगुप्तिः ॥ १॥ नृणन्ति गुप्त्यर्थं रथमनेन वरूथः, लोहादिमयी आवृत्तिः “जृवृभ्या-” ॥ (उणा - २३६ ) ॥ इत्यूथः पुंक्लीबलिङ्गोऽयम् ॥ २ ॥ रथाङ्गानि त्वपस्कराः ।
चक्रादन्यानि रथस्याङ्गानि आरम्भकाणि, अपकुर्वन्त्यपकीर्यन्ते वा अपस्कराः, वर्चस्कादित्वात् साधुः ॥ १ ॥
शिबिका याप्ययाने
शिबैव शिबिका ॥ १ ॥ याप्यस्य अशक्तस्य यानं युग्याख्यं याप्ययानम्, "कृपानम्” इति गौडः, तत्र ॥ २ ॥
अथ दोला प्रेङ्खादिका भवेत् ॥ ४२२ ॥