SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ "" ७७८ ) ॥ इति तुः ॥ २ ॥ पतति धूयत पताका “ शलिबलि- ॥ ( उणा३४ ) ॥ इत्याकः, पटाकाऽपि ॥ ३ ॥ केत्यते संज्ञायतेऽनेन केतनम् ॥ ४ ॥ ध्वजति धूयते ध्वजः पुंनपुंसकौ, पताकादण्डो ध्वज इत्येके ॥ ५ ॥ अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुख कूर्चकौ ॥ ४१४ ॥ ३०० अस्य ध्वजस्योर्ध्वस्थितः कूर्चकः, उद्गता चूलाऽग्रभागोऽस्येत्युच्चूलः ॥ १ ॥ अधोमुखस्तु कूर्चकः, अवाङ्मुखा चूला अस्येत्यवचूलः ॥ १ ॥ ४१४ ॥ गजो वाजी रथः पत्तिः सेनाङ्गं स्याच्चतुर्विधम् । सेनाया अङ्गमवयवः सेनाङ्गं गजादि, चतुर्विधं चतुर्भेदं चतुरङ्गादिसेना, तत्र गजवाजिनौ तिर्यक्काण्डे वक्ष्येते, पत्तिः पूर्वमुक्तः, रथनामान्याह युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ ४१५ ॥ युद्धप्रयोजने चक्रयुक्ते याने सांपरायिकाख्ये शतं बहून्यङ्गान्यवयवा अस्य शताङ्गः ॥ १ ॥ स्यन्दते याति स्यन्दनः ॥ २ ॥ रमन्तेऽनेन रथः पुंस्त्रीलिङ्गः "" " नीनूरमि- ॥ ( उणा - २२७ ) ॥ इति कित् थः ॥३॥४१५॥ सक्रीडार्थः पुष्परथः स रथः क्रीडानिमित्तो न पुनः समरार्थः, पुष्पे यात्रोत्सवादौ मङ्गल्यो रथः पुष्परथः ॥ १ ॥ देवार्थस्तु मरुद्रथः । देवाय अयं देवार्थः, देवनिमित्ते मरुतां देवानां रथो मरुद्रथः ॥ १ ॥ योग्यारथो वैनयिकः योग्यायै शस्त्राभ्यासाय रथो योग्यारथः ॥ १ ॥ विनयः शिक्षाप्रयोजनमस्य वैनयिकः ॥ २ ॥ अध्वरथः पारियानिकः ॥ ४१६ ॥ अध्वनि गमनाय रथोऽध्वरथः, परियानं प्रयोजनमस्य पारियानिकः ॥ १॥ ४१६॥ कर्णीरथः प्रवहणं डयनं रथगर्भकः । कर्णाः सन्त्येषु कर्णिनः स्कन्धास्तेषु रथः कर्णीरथः पुंस्कन्धवाह्यो रथः बाहुलकाद् दीर्घः, कर्ण्या चतुष्काष्ठ्यां स्थितो रथ इति वा ॥ १ ॥ प्रवहन्त्यनेन, प्रोह्यते वा प्रवहणम् ॥ २ ॥ डयन्ते विहायसा यान्ति वाऽनेन डयनं विमानाख्यम् ॥ ३ ॥ रथस्य गर्भ इव रथगर्भकः ॥ ४ ॥ अनस्तु शकटः
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy