SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ३ मर्त्यकाण्डः। २९९ २९९ यदाहुः_ "एगो हत्थी एगो य रहवरो तिन्नि चेव य तुरंगा । पंचेव य पाइक्का एसा पत्ती मुणेयव्वा" ॥१॥१॥ सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ ४१२ ॥ अनीकिनी च पत्तेः स्यादिभाद्यैस्त्रिगुणैः क्रमात् । पत्तेः संबन्धिभिरिभाद्यैः क्रमेण त्रिगुणितैः सेनादीनि नामानि क्रमेण भवन्ति, तेन पत्तिस्त्रिगुणा सेना ॥ १॥ सेना त्रिगुणा सेनामुखम् ॥ १॥ सेनामुखं त्रिगुणं गुडति गुल्मः पुंक्लीबलिङ्गः ॥१॥ गुल्मस्त्रिगुणो वाहिनी ॥१॥ ४१२॥ एवमुत्तरोत्तरं क्रमेण त्रिगुणिता यावदनीकिनी, अनीकिनीसंख्या तु हस्ति २१८७, रथ २१८७, अश्व ६५६१, पदाति १०९३५, एवमनीकिन्यां सर्वसंख्या २.१८७० । यदाहुः "पेत्ती सेणा सेणामुहं च गुम्मं च वाहिणी चेव । पियणा चमू अणीगिणी दसगुणिआ अक्खोहिणी होइ" ॥१॥ अमरादयस्तु- “ सेनामुखं गुल्मगणो वाहिनी पृतना चमूः । अनीकिनी" इत्येवं क्रमेण नामान्याहुः ॥ दशानीकिन्योऽक्षौहिणी दशानीकिन्य इति दशगुणाऽनीकिनीत्यर्थः, अक्ष्णामिन्द्रियाणां रथानां वा ऊहः समूहो रचना वास्त्यस्यामक्षौहिणी । - यदाहु: "स्यात्सेनाऽक्षौहिणी नाम खाऽगाष्टकद्विकैर्गजैः। . रथैश्वेभ्यो हयैस्त्रिनैः पञ्चप्नैश्च पदातिभिः” इति ॥ १ ॥१॥ सजनं तूपरक्षणम् ॥ ४१३ ॥ __सत् शोभनं जन्यतेऽनेन सज्जनम् , सज्ज्यतेऽनेन वा, उपरक्ष्यतेऽनेनोपरक्षणं सैन्यस्य प्रगुणीकरणं गुल्मको वा ॥ १॥ ४१३ ॥ ... वैजयन्ती पुनः केतुः पताका केतनं ध्वजः । विजयते विजयन्तः “तृजि-" ॥ (उणा-२२१)॥ इत्यन्तः, विजयन्तस्येयं वैज- यन्ती, जयन्तीत्यपि ॥ १॥ चाय्यतेऽनेन केतुः पुंलिङ्गः “चायः के च" ॥ (उणा १ एको हस्ती एकश्च रथवरस्त्रय एव च तुरङ्गाः । पञ्चैव च पदातय एषा पत्तिर्जातव्या ॥१॥ २ पत्तिः सेना सेनामुखं च गुल्मं च वाहिनी चैव । पृतना चमूरनीकिनी दशगुणिताऽक्षौहिणी भवति ॥१॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy