________________
२९८
अभिधानचिन्तामणौ
वरूथिनी चमूश्चक्रं स्कन्धावारः
वाहाः सन्त्यस्यां वाहिनी ॥ १ ॥ ' पृङ्तू व्यायामे' प्रियते पृतना "पृभ्यां कित्” ॥ (उणा-२९३) ॥ इति तनः ॥ २ ॥ सिनोति सेना “ सेर्वा” ॥ ( उणा - २६२ )॥ इति नः, सह इनेन वर्तते वा ॥ ३ ॥ बलति प्राणिति बलम् ॥ ४ ॥ सेनैव सैन्यं भेषजादित्वात् द्यण् ॥ ५ ॥ अनीकं संग्रामोऽस्त्यस्यामनीकिनी ॥६॥४०९ ॥ कटत्यावृणोति पृथ्वीं कटकं पुंक्लीबलिङ्गः “दृकॄ-” ॥ ( उणा - २७ ) ॥ इत्यकः ॥ ७ ॥ ध्वजाः सन्त्यस्यां ध्वजिनी ॥ ८ ॥ तन्यते तन्त्रम् ॥ ९ ॥ दण्ड्यतेऽनेन दण्डः ॥१०॥ अनित्यनीकं पुंक्लीबलिङ्गौ " स्यमिकषि - " ॥ ( उणा - ४६ ) ॥ इतीकः ॥ ११ ।। पताकाः सन्त्यस्यां पताकिनी शिखादित्वादिन् ॥ १२ ॥ वरूथो रथगुप्तिरस्त्यस्यां वरूथिनी ॥ १३ ॥ चमत्यरीन् चमूः स्त्रीलिङ्गः “कृषिचमि " ॥ ( उणा - ८२९) ॥ इत्यूः ॥ १४ ॥ करोति चक्रं पुंक्लीबलिङ्गः "कृगो द्वे च " ॥ ( उणा - ७ ) ॥ इति किदप्रत्ययः ॥ १५ ॥ चतुरङ्गसैन्यस्य प्रधानभूतत्वाद् राजा स्कन्धः, तमावृणोति स्कन्धावारः, शिबिरमित्यन्ये ॥ १६ ॥
अस्य तु स्थितिः ॥ ४१० ॥
शिबिरम्
अस्य सैन्यस्य स्थितिः सन्निवेशः ॥ ४१० ॥ ' शव् गतौ तालव्यादिः, ' शवन्त्यत्र शिबिरं "शवशशेरिच्चातः ॥ ( उणा - ४१३ ) ॥ इतीरः ॥ १ ॥
"
रचना तु स्याद् व्यूहो दण्डादिको युधि ।
युद्धनिमित्तं सैन्यस्य दण्डाकृत्यादिभेदेन रचना, व्युह्यते रच्यते व्यूहो दण्डादिकः, आदिशब्दान्मण्डलादयः ।
यदाहुः—
“दण्डो मण्डलभागौ चाप्युच्छन्नश्चाबलो दृढः ।
""
व्यूहास्तेषां विशेषाः स्युश्चक्रव्यूहादयोऽपि च ॥१॥१॥ प्रत्यासारो व्यूहपाणिः
""
प्रत्यासरति भग्नान् प्रत्यासारः सर्तेः स्थिर- ” ॥ ५।३।१७ ॥ इति घञ् ॥ १ ॥ व्यूहस्य पाणिः पश्चाद्भागः ॥ २ ॥
सैन्यपृष्ठे प्रतिग्रहः ॥ ४११ ॥ प्रतिगृह्यतेऽवष्टभ्यतेऽनेन सैन्यं प्रतिग्रहः ॥ १ ॥ ४११॥ एकेभैकरथास्त्रयश्वाः पत्तिः पञ्चपदातिका । एक हस्त्यादियुक्त सेना पद्यतेऽस्यां पत्तिः ।