________________
३ मयंकाण्डः ।
२९७
न्यायादनपेतं न्याय्यं “ न्यायार्थादनपेते" ॥ ७।१।१३ ॥ इति यः ॥ १॥ उच्यते स्म उचितम् ॥ २ ॥ युज्यते स्म युक्तम् ॥ ३ ॥ सम्प्रति युज्यते साम्प्रतं " क्वचित् " ॥ ६।२।१४५ ॥ इत्यण् ॥ ४ ॥ लभ्यते लभ्यम् “ शकितकि-" ॥५।१।२९॥ इति यः ॥ ५ ॥ प्राप्यते स्म प्राप्तम् ॥ ६ ॥ भजते भजमानम् ॥७॥ अभिमुखं नीयते स्माभिनीतम् ॥ ८ ॥ उपाय एवौपयिकम् “उपायाद् ह्रखश्च" ॥७२।१७०॥ इति खार्थे इकणि साधुः, एते वाच्यलिङ्गाः ॥९॥४०७॥
प्रक्रिया त्वधिकारः प्रारम्भात् करणं प्रक्रिया ॥१॥ अधिक्रियते प्रस्तूयतेऽधिकारो व्यवस्थास्थापनमित्यर्थः ॥ २॥
अथ मर्यादा धारणा स्थितिः।
संस्था
मर्या इति सीमार्थेऽव्ययम् , तत्र दीयते मर्यादा ॥ १॥ धार्यतेऽनया धारणा ॥ २ ॥ स्थीयतेऽनया स्थितिः ॥ ३ ॥ संतिष्ठतेऽनया संस्था ॥ ४ ॥
अपराधस्तु मन्तुळलीकं विप्रियाऽऽगसी ॥४०८॥
अपराधनमपराधः ॥ १॥ मन्यते हृदि मन्तुः, पुंलिङ्गः “ कृसिकम्य-" ॥ ( उणा-७७३ ) ॥ इति तुन् ॥ २ ॥ विशेषेणाऽल्यते वार्यते व्यलीकं पुंक्लीवलिङ्गः "स्यमिकषि-" ॥ ( उणा-४६ ) ॥ इतीकः ॥ ३ ॥ विरुद्धं प्रियं विप्रियम् ॥ ४ ॥ अगति कुटिलं गच्छत्यनेनाऽऽगः क्लीबलिङ्गः " वस्त्यगिभ्यां णित् " ॥ ( उणा९७० ) ॥ इत्यस् ॥५॥४०८॥
बलिः करो भागधेयः - बलन्त्यनेन बलिः पुंस्त्रीलिङ्गः “ पदिपठि-" ॥ ( उणा-६०७ ) ॥ इतीः ॥१॥ कीर्यते क्रियते वा प्रत्येकं करः ॥२॥ भज्यते भागोंऽशः स एव भागधेयः स्त्रीपुंसलिङ्गः “ नामरूपभागा-" ॥७॥२।१५८॥ इति स्वार्थे धेयः, 'राजग्राह्यः षड्भागादिर्भागः' 'प्रत्येकं स्थावरजङ्गमाद् हिरण्यादानं करः' नियोग्युप‘जीव्या बलिरित्यवान्तरभेदोऽर्थशास्त्रोक्तोऽत्र नाश्रितः ॥ ३ ॥
.. द्विपाद्यो द्विगुणो दमः ।
द्वौ पादौ प्रमाणमस्य द्विपाद्यः “ पणपाद-" ॥ ६।४।१४८ ॥ इति यः, . द्विगुणो दमो दण्डः ॥ १॥
वाहिनी पृतना सेना बलं सैन्यमनीकिनी ॥ ४०९ ॥ कटकं ध्वजिनी तन्त्रं दण्डोऽनीकं पताकिनी ।