SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ भयधर्मार्थकामोपन्यासेनामात्यानामाशयान्वेषणम्, उपधीयते समीपे ढौ - क्यते परीक्षार्थमुपधा, यत्कौटिल्यः -- “ उपधाभिः शौचाशौचपरिज्ञानममात्यानाम्” इति ॥ १ ॥ ४०४ ॥ २९६ तन्मन्त्राद्यषडक्षीणं यत्तृतीयाद्यगोचरः । न षडक्षीण्यत्राषडक्षीणं मन्त्रक्रीडादि " अषडक्षाशितंग्वल - " ॥७।१।१०६ ॥ इतीनः ॥ १ ॥ रहस्याssलोचनं मन्त्रः रहस्येकान्ते आलोच्यते आलोचनम्, मन्त्रणं मन्त्रः पञ्चाङ्गः, यत्कौटिल्यः“कर्मणामारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्वेति पञ्चाङ्गो मन्त्रः ॥ १ ॥ रहश्छन्नमुपह्वरम् ॥ ४०५ ॥ विविक्तविजनैकान्तनिःशलाकानि केवलम् । रहन्ति त्यजन्त्येतदिति रहः क्लीबलिङ्गः " अस् " ॥ ( उणा - ९५२ ) ॥ इत्यस्, अव्ययमपि ॥ १ ॥ छायते स्म छन्नम् ॥ २ ॥ उपह्वयत्युपह्वरं पुंक्लीबलिङ्गः ॥३॥४०५॥ विविच्यते पृथक् क्रियते स्म विविक्तम् ॥ ४ ॥ विगतो जनोऽस्माद्विजनम् ॥ ५ ॥ एको न तु द्वितीयोऽन्ते समीपेऽत्रैकान्तम् ॥ ६ ॥ निर्गतो शलाकाव्यथकोऽत्र निःशलाकम् ॥ ७ ॥ केव्यते सेव्यते निर्जनत्वात् केवलं मृदकन्दि( उणा - ४६५ ) ॥ इत्यलः । उपांश्वव्ययेषु वक्ष्यते ॥ ८ ॥ 66 . गुह्ये रहस्यं 66 गुह्यते गुह्यं “ कृषि - " || ५ | १|४२ ॥ इति क्यप् तत्र ॥ १ ॥ रहसि भवंरहस्यं दिगादित्वाद्यः ॥ २ ॥ न्यायस्तु देशरूपं समञ्जसम् ||४०६ ॥ कल्पाsश्रेषौ नयः नियतमीयतेऽनेन न्यायः “न्यायाऽवाया- ” ॥५॥ ३|१३४ ॥ इति घञि निपात्यते ॥ १ ॥ दिश्यमानस्योचितस्य रूपं देशरूपम्, प्रशस्तं देशनं वा "त्यादेश्च प्रशस्ते रूपप्”।७।३।१०॥२॥ सम्यगञ्जसा सत्यमत्र समञ्जसम्, संगतमञ्जसानामृजूनामिति वा ॥३॥४०६॥ कल्पनं कल्पः सामर्थ्यम् ॥४॥ यथोचिताद् रूपाद् भ्रंशो भ्रेषः, नास्ति श्रेषोऽस्मिन्नभ्रेषः ॥ ५ ॥ नयनं नयः, नीतिरपि ॥ ६ ॥ 2. न्याय्यं तूचितं युक्तसाम्प्रते । लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च ॥ ४०७ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy