SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ३० अभिधानचिन्तामणौ शोभनं पर्व चरितमुत्सवो वा येषां ते सुपर्वाणः ॥ ४ ॥ सुरत् ऐश्वर्यदीप्त्योः सुरन्तीति सुराः । “नाम्युपान्त्य - " ॥ ५|१|५४ ॥ इति कः । सुन्वन्तीति वा "ऋज्यजितञ्चि - " ॥ ( उणा - ३८८ ) ॥ इत्यादिना कित् रः । सुष्ठु राजन्त इति वा "क्वचित्” ॥५।१।१७१ ॥ इति ङः । सुरा एषामस्तीति वा “ अभ्रादिभ्यः”॥७॥२॥४६॥ इत्यप्रत्ययः । यतोऽधिजा सुरा तैः पीतेति प्रसिद्धिः ॥ ५ ॥ निष्क्रान्ता जराया निर्जराः सदायौवनत्वात्तेषाम् ॥ ६ ॥ देवा एव देवताः स्त्रीलिङ्गः “देवात्तल्” ॥ ७।२।१६२॥ इति तल् ॥ ७ ॥ रभन्ते पुण्यकार्येषु उत्सुका भवन्तीति ऋभवः । “रभिप्रथिभ्यामृच्च रस्य” ॥ ( उणा - ७३० ) ॥ इति उप्रत्ययः । ऋशब्दोऽदितिवाची ततो भवन्तीति वा "केवयुभुरण्" - ॥ ( उणा - ७४६ ) ॥ इति डुः ॥ ८ ॥ बर्हिरग्निर्मुखमेषां बर्हिर्मुखाः ॥ ९ ॥ न निमिषन्तीत्यनिमिषाः ॥ १० ॥ देवता एव दैवताः पुंक्लीबलिङ्गः “ प्रज्ञादिभ्योऽण् ” ॥ ७|२| १६५॥ इत्यण् ॥ ११ ॥ नाक: स्वर्गो विद्यते येषां ते नाकिनः । यौगिकत्वात् स्वर्गिणः, त्रिदिवाधीशा इत्यादयोऽपि -॥ १२ ॥ लिख्यन्ते चित्रादौ ध्यानार्थमिति लेखा:, हस्तादौ प्रशस्ता लेखाः सन्त्येषामिति वा अभ्रादित्वादः || १३ || प्रशस्तं वृन्दमस्त्येषां वृन्दारकाः “वृन्दादारकः ॥७|२|११॥ इत्यारकः ॥ १४ ॥ शोभनं मनो येषां ते सुमनसः सङ्कल्पमात्रेण लब्धसिद्धित्वात्, मलिनसङ्कल्पाभावाद्वा । सुष्ठु मान्यन्ते इति वा “विहायस्सु मनस् " - ॥ (उणा- ९७६)॥ इत्यसन्तो निपात्यते ॥ १५ ॥ त्रिर्दश त्रिदशाः “प्रमाणीसंख्याड्डः ॥७॥ ३।१२८॥ इति ड:“त्रिंशादेता देवतास्त्रयस्त्रिंशदेतास्त्रिंशदक्षरा विराड्” इति श्रुतेः । तिस्रो दशा वयोऽवस्था येषां ते त्रिदशास्त्रिंशद्वर्षा मनुष्ययुवानः त्रिदशा इव त्रिदशा इति वा ॥ १६ ॥ न म्रियन्ते इत्यमर्त्याः “मृशीपसिवस्यनिभ्यस्तादिः " ॥ ( उणा३६०)॥ इति तकारादिर्यप्रत्ययः । म्रियन्त इति मर्त्ताः “लूम्रो वा”॥ ( उणा२०२) ॥ इति तप्रत्ययः मर्त्ता एव मर्त्याः " मर्त्तादिभ्यो यः ॥ ७२ ॥ १५९ ॥ इति स्वार्थे यः; न मर्त्त्या अमत्य इति वा ॥ १७ ॥ स्वाहास्वधाक्रतुसुधाभुज इति भुक्शब्दः स्वाहादीनां प्रत्येकं संबध्यते तेन स्वाहाभुजः, स्वधाभुजः, ऋतुभुजः, सुधाभुजश्च स्वाहा भुञ्जते इत्यादि कृत्वा । एषां यौगिकत्वात् स्वाहाशनाः, स्वधाशनाः, यज्ञाशनाः, अमृतान्धस इत्यादयोऽपि ॥ २१ ॥ न ददाति दुःखमित्यदितिः। “नञो दागो डितिः ॥ (उणा - ६६७ ) ॥ इति डितिः । अदितेयिमदिती, तस्या अपत्यानि आदितेयाः “ङयाप्त्यूङः”॥६।१।७०॥ इत्येयण् । यौगिकत्वादादित्याः, अदितिजाइत्यादयोऽपि ॥ २२ ॥ २ ॥ गीरेव वाणोऽत्रं येषां ते गीर्वाणाः ॥ २३ ॥ म्रियन्ते पुण्यक्षयाच्च्यवन्त इति मरुतः “म्र उत्" ॥ ( उणा - ८८९ ) ॥ इति उत् ॥ २४ ॥ नास्ति स्वप्नो निद्रा येषां ते अस्वनाः || २५ ॥ विबुध्यन्ते जानन्त्यवधिनेति विबुधाः ॥ २६ ॥ दानवानामरयो दानवारयः । यौगिकत्वात् दनुजद्विष इत्यादयः ॥ २७ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy